'अर्धं नपुंसकम्' इति समासः। 'अहःसर्वैकदेश-' इत्यादिना समासान्तः 'रात्राह्राहाः पुंसि' इति पुंलिङ्गता। ध्वान्तमिव द्रुतमाजहाराचकर्ष ॥
प्रसक्तदावानलधूमधूम्रा नि[१]रुन्धती धाम सवस्त्ररश्मे:। |
प्रसक्तेति ॥ प्रसक्तः संततो यो दावानलधूमस्तद्वद्धूम्रा धूसरा सहस्ररश्मेर्धाम तेजो निरुन्धत्यावृण्वती काली कृष्णवर्णा । 'जानपद-'इत्यादिना ङीप् । छाया कान्तिः। ईशबलानि महातमिस्रा महती तमःसंततिः। 'तमिस्रा तु तमस्ततिः' इति विश्वः । महावनानीव । ततान व्यानशे ।
आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती। |
आसादितेति॥तदेवासादनं प्रथमं तत्प्रथमं यथा तथा प्रसह्यासादिता प्राप्ता प्रगल्भताया व्यवहारधार्ष्ट्यस्य पदवीं हरन्ती भीमा भयंकरी निद्रा। उक्तविशेषणा सभा संसदिव। गणानां प्रतिभा प्रज्ञा शक्तिः सैव गुणस्तस्य निरासं प्रतिभाक्षयं विदधे चक्रे॥
गुरुस्थिराण्युत्तमवंशंजत्वाद्विज्ञातसाराण्यनुशीलनेन । |
गुर्वीति॥ केचिदुत्तमवंशजत्वाद्वंशो वेणुः कुलं च।'वंशो वेणौ कुले च' इति विश्वः। गुरूणि महान्ति स्थिराणि दृढानि च गुरुस्थिराण्यनुशीलनेन परिचयबलेन विज्ञातः सारो बलं येषां तानि गुणैर्मौर्वीभिः शौर्यादिभिश्चान्वितानि धनूंषि सुहृत्कुलानि मित्रकुलानीव समाश्रित्य तस्थुः । धनूंष्यवष्टभ्य निदध्युरित्यर्थः॥
कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । |
कृतान्तेति ॥ कृतान्तदुर्वृत्ते दैवदुश्चेष्टित इव । 'कृतान्तो यमसिद्धान्तदैवाकुशल- कर्मसु' इति विश्वः । पाण्डवास्त्रे पुरः प्रतिद्वन्द्विनि प्रतिकुलवर्तिनि सति तदा तस्मिन्कालेऽपरेषामायुधानि क्रियाफलानि कृष्यादिफलानीव । अतर्कितमविचारितमेव पाणितलान्निपेतुः॥
अंसस्थलैः केचिदभिन्नधै[४]र्याः स्कन्धेषु संश्लेषवतां तरूणाम्। |