पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
किरातार्जुनीये

शिरोधरायाः कंधरायाः समाधिः संस्थानविशेषै रहितः प्रयासो यस्य स तथोक्तः । निःप्रयास इत्यर्थः । तथा विकारांस्त्यजता । जितश्रमत्वान्निर्विकारणेत्यर्थः । मुखेन शशलाञ्छनस्येन्दोः प्रसादलक्ष्मीर्धृता । असंभवत्संबन्धो निदर्शनालंकारः ॥

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थि[१]तप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशःशराणाम् ॥२२॥

  प्रहीयत इति ॥ कार्यवशेन प्रयोजनवशेनागतेषु स्थानेष्वालीढादिस्थानकेषु देहो विष्टब्धतया स्थिरतया कर्त्र्या न प्रहीयते न त्यज्यते।किंतु स्थिर एव तिष्ठतीत्यर्थः। सुष्टु भावः सौष्ठवं लाघवम् । उद्गात्रादित्वादञ्प्रत्ययः । तेन सह वर्तमानः ससौष्ठवः शराणां पातश्च स्थितान्यचलानि प्रयातानि चलानि तेषु स्थितप्रयातेषु चलाचलेषु लक्ष्येषु विषये सदृश एकरूपः ॥

परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसंभाव्यमिदं गुरौ वा न संभवत्येव वनेचरेषु ॥२३॥

  परस्येति॥ किं च। परस्य विवरे रन्ध्रे। अल्पेऽपीति शेषः। भूयान्भूयिष्ठोऽभियोगो ज्ञातृत्वम् । परस्य रन्ध्रज्ञातृत्वात्प्रहार उद्योग इत्यर्थः । आत्मनो रन्ध्रे विवरे । अनल्पेऽपीति शेषः। प्रसह्य झटिति संरक्षणं गोपनं च। भूयिष्ठमिति शेष:। इदं द्वयं भीष्मेऽपि गुरौ वा द्रोणे चाप्यसंभाव्यं दुर्वितर्क्यम् । वनेचरेषु न संभवत्येव । अतो नायं किरातः। किं त्वेष तिरोहितवेषः कोऽप्यमानुषः पुरुष इति भावः ।।

अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥२४॥

  अप्राकृतस्येति॥अप्राकृतस्योक्तरीत्यासाधारणस्याहवदुर्मदस्य रणमत्तस्यास्य किरातस्य वीर्यं तेजोऽस्त्रबलेन दिव्यास्त्रमहिम्ना निवार्यं निवारणीयम्। अन्यथानिवार्यत्वमस्येति भावः । तथा हि । अल्पीयसोऽप्यत्यल्पस्याप्यामयतुल्यवृत्ते रोगसमानक्रियस्य । 'रोगव्याधिगदामयाः' इत्यमरः।रिपोर्विवृद्धिर्महापकाराय । किं त्वयं महानुभाव इति भावः ॥

स संप्रधार्यैव [२] महार्यसारः सारं विनेष्यन्सगणस्य शत्रोः।
प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घ[३]नानद्ध इवार्धरात्रः ॥२५॥

  स इति ॥ अहार्यसारोऽनिवार्यवीर्यः सोऽर्जुन एवं संप्रधार्य निश्चित्य सगणस्य सानुगस्य शत्रोः सारं सत्त्वं विनेष्यन्नपनेष्यन् । प्रस्वाप्यन्ते शाय्यन्तेऽनेनेति प्रस्वापनं तदेवास्त्रम् । घनानद्धो मेघव्याप्तोऽर्धरात्रो निशीथः । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः।


  1. 'स्थिर' इति पाठः
  2. 'इदम्'; 'इत्थम्' इति पाठौ
  3. 'धनारब्ध' इति पाठः