पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
षोडशः सर्गः।

ष्यागस्त्यमत्स्यानां य उपधायाः' इति स्त्रियां ङीप् । यकारस्य लोपः । दीप्तिरिव हीनयुद्धे किरातरणेऽवस्यत्यवसीदति । एतच्च विरुद्धमत्यद्भुतं चेति भावः । षोऽन्त- कर्मणि' इति धातोर्लट् ॥

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि य[१]था पुरा मे पराक्रमन्ते न शराः किराते॥ ॥१८॥

  मायेति ॥ एषा शक्तिह्रासरूपा माया स्विद्देवताक्षोभणं नाम । मतिविभ्रमो बुद्धिविपर्ययो वा । अथवा मे वीर्यं ध्वस्तं नष्टं नु । उताहमन्योऽर्जुनो न वा । कुतः। हि यस्माद्गाण्डीवमुक्ता मे शराः पुरा यथापूर्वम् । परिपन्थिष्विवेत्यर्थः । किराते न पराक्रमन्तेऽप्रतिबन्धेन न प्रवर्तन्ते । 'उपपराभ्याम्' इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः॥

पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैष यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥१९॥

  पुंस इति॥ किं च। उत्तमस्य पुंसः पुरुषोत्तमस्य मध्यमं पदमाकाशं धनुषः प्रणादैः। 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । द्विधा कुर्वन्निव विदारयन्निव स्थित एष किरातो नूनं तथा तथाभूतो न । कीदृशस्तत्राह-अस्य पुरुषस्य यथा यथाभूतो वेषः । वर्तत इति शेषः । वेषत एवायं किरातो न स्वरूपत इत्यर्थः । कुतः। हि यस्माच्चेष्टा व्यापारः प्रच्छन्नमपि निगूढमपि स्वरूपमूहयते तर्कयते । तस्याः स्वभावादव्यभिचारादिति भावः ॥

  अथ चतुर्भिश्चेष्टामेवाचष्टे-

धनुः प्रबन्धध्वनितं रु[२]षेव सकृद्विकृष्टा विततेव मौर्वी ।
संधानमुत्कर्षमिव व्युदस्य मुष्टेरसंभेद इवापवर्गे ॥२०॥

  धनुरिति । धनू रुषेव प्रबन्धेनाविच्छेदेन ध्वनितम् । ध्वनतेः कर्तरि क्तः । मौर्वी च सकृद्विकृष्टा विततेवैकवाराकर्षणादेव विततेव स्थिता । संधानं बाणसंधानमुत्कर्षं तूणादुद्धरणं व्युदस्येव वर्जयित्वा । किमु कृतमिति शेषः । अपवर्गे बाणमोक्षेऽपि मुष्टेरसंभेदोऽसंघटनमिव । मुष्टिबन्धं विनैव बाणमोक्षः कृत इवेति हस्तलाघवोक्तिः॥

अंसाव[३]वष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृत्तां वि[४]कारांस्त्यजता मुखेन प्रसादलक्ष्मीःशशलाञ्छनस्य ॥२१॥

  अंसाविति ॥ किं च । अंसाववष्टब्धौ स्थिराववस्थापितौ च तौ नतौ चावष्टन्धनतौ


  1. 'तथा पुरेव'; 'तया पुरैव' इति पाठौ
  2. 'रुषैव' इति पाठः
  3. 'अवष्टम्भ' इति पाठः
  4. 'विकारं' इति पाठः