महीति॥पक्षवता सपक्षेण महीभृता मैनाकेनेव परवारणेन शत्रुगजेन मध्यं विगाह्य प्रविश्य भिन्नाः क्षोभिता ध्वजिन्यः सेनाः। 'ध्वजिनी वाहिनी सेना' इत्यमरः। अपां निधेः सागरस्याप इव । आवर्तमाना भ्रमन्त्यः सत्यः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । भीमं न निनदन्ति ॥
महारथानां प्रतिदन्त्यनीकमधिस्यदस्यन्दनमुत्थितानाम् । |
महारथानामिति ॥ प्रतिदन्त्यनीकं दन्तिसैन्यं प्रति । 'अनीकं तु रणे सैन्ये' इति विश्वः । अधिस्यदा महारया: स्यन्दना रथा यत्र तत्तथा । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः। उत्थितानां प्रस्थितानां महारथानां रथिकविशेषाणाम्।'आत्मानं सारथिं चाश्वान् रक्षन्युध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः' इति लक्षणात् । पन्था मार्ग आमूलं लूनैश्छिन्नैर्मातङ्गहस्तैर्नागकरैरतिमन्युनातिक्रोधेनेव न व्रियते न निरुध्यते ।
धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः। |
धृतेति । पतितस्य वक्षसि मग्नस्य शङ्कोस्तोमरस्य संबन्धी । 'वा पुंसि शल्यं शङ्कुर्नां सर्वला तोमरोऽस्त्रियाम्' इत्यमरः । बर्हभारस्तन्मूलबद्धो लाञ्छनपिच्छकलापो धृत उत्पलापीडः कुवलयशेखरो यस्मिन्स प्रियायाः संबन्धी शिथिलः स्रस्तः शिरोरुहाणां कलापः केशपाश इव निषादिनो हस्त्यारोहस्य वक्षःस्थलं नातनोतिन व्याप्नोति ॥
उज्झत्सु संहार इवास्तसंरख्यमह्नाय तेजस्विषु जीवितानि । |
उज्झस्विति ॥ अत्राहवे संहारे कल्पान्त इव तेजस्विषु वीरेश्वस्तसंख्यमसंख्यं यथा तथाह्नाय झटिति । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । जीवितान्युज्झत्सु त्यजत्सु सत्सु मृत्युर्लोकत्रयस्यास्वादने भक्षणे लोला गृध्रुर्जिह्वा यस्मिंस्तदाननं न व्याददाति न विवृणोति । 'आङो दोऽनास्यविहरणे' इत्यत्रानास्यविहरण इति निषेधादात्मनेपदम् ॥
सत्यमेवम् । तथापि किमेतत्कुत्सितम् । तत्राह----
इयं च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् । |
इयमिति ॥ इयं मम शक्तिश्च दुर्वारा: पराक्रमिणो महारथा येषु तेषां महतां बालानां वीर्यमाक्षिप्य निरस्य ताराधिपधाम्नि चन्द्रतेजसि । सूर्यस्येयं सौरी । 'सूर्यति-