पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
षोडशः सर्गः।

तानि । 'इंहितं करिगर्जितम्' इत्यमरः । संघर्षयोगादिव परस्परस्पर्धासंबन्धादिव मूर्च्छितानि वृद्धिं गतानि सन्ति । 'नपुंसकमनपुंसक-'इत्यादिना नपुंसकैकशेषः । दुन्दुभीनां भेरीणां ह्रादं निर्घोषम् । 'स्वाननिर्घोषनिर्ह्राद-' इत्यमरः । न निगृह्णन्ति न तिरस्कुर्वन्ति ॥

अस्मिन्यशःपौरुषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम् ।
मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥९॥

  अस्मिन्निति ॥ अस्मिन् रणे यशःपौरुषयोर्लोलुपानां गृध्नूनामतएवारातिभिः प्रत्युरसमुरसि । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तः । क्षतानां विद्धानां संबन्धिनं मूर्च्छैवान्तरायो रणविघ्नस्तमासारशीतं वर्षधाराशीतलम् । 'धारासंपात आसारः' इत्यमरः । करिणां शीकर एवाम्भः कर्तॄ मुहुर्नोच्छिनत्ति न नाशयति ॥

असृङ्गदीनामुपचीयमानैर्विदा [१] रयद्भिः पदवीं ध्वजिन्याः।
उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥१०॥

  असृगिति ॥असृङ्गदीनां तटान्युपचीयमानैरुपचयं नीयमानैस्तथा ध्वजिन्याः पदवीं विदारयद्भिर्दुःसंचारां कुर्वद्भिः। 'विदूरयद्भिः' इति पाठे विदूरां दूरसंचारां कुर्वद्भिः। आश्याना ईषच्छुष्काः । संयोगादेरातो धातोर्यण्यतः' इति श्यायतेर्निष्ठानत्वम् । घनाः सान्द्रास्तैराश्यानघनैः शोणितौघै: पङ्कैरिवोच्छ्रायं वृद्धिं नायान्ति न प्राप्नुवन्ति ॥

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥११॥

  परीति ॥ इह रणे दन्तिदन्तैर्गजदन्तैः परिक्षते ताडिते वक्षसि नमसः पतन्ती प्रियाया अङ्क इव शीता शीतला सुखकरी मन्दारमाला । सुरैर्मुक्तेति शेषः । प्रियं साहसं येषां तेषां प्रियसाहसानाम् । यतो गजाभियायिनामिति भावः। प्रमोहं प्रहारमूर्च्छां न विरलीकरोति न मन्दीकरोति । नापनयतीति, यावत् ॥

निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरण ।
अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥१२॥

  निषादीति ॥ करिणां शीकरेण पुष्करतुषारेण परीयमाणे व्याप्यमाने निषादिनो हस्त्यारोहाः। 'हस्त्यारोहा निषादिनः' इत्यमरः । तेषां संनाहाः कवचानि तेषां मणिप्रभौघे रत्नांशुजालेऽर्कस्य त्विषा तेजसोन्मीलितमुत्पादितमाखण्डलकार्मुकस्येन्द्रधनुषः। 'आखण्डलः सहस्राक्षः' इत्यमरः । खण्डं नाभ्युदेति ।।

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
ना[२]वर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥१३॥


  1. 'मिवारयद्भिः;'विष्टम्भयद्भिः' इति पाठौ
  2. 'निवर्त्यमाना निनदन्ति';'आवर्तमाना न नदन्ति' इति पाठौ