फेना इव चामरफेनास्तेषां पङ्क्तयः परिस्फुरन्त्यश्चामरफेनपङ्क्तयो यत्र तत्तथोक्तम् । अश्वीयमश्वसमूहः । 'वृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । जलधेरम्भ इव विभिन्नमर्याद- मुच्छृङ्खलं यथा तथाशा दिशो नातनोति नावृणोति ॥
हताहतेत्युद्धतभीमघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् । |
हतेति ॥ हत प्रहरताहत विध्यत । हन्तेर्लोट् । मध्यमपुरुषबहुवचनम् । 'अनुदा- त्तोपदेश--' इत्यादिनानुनासिकलोपः आहतेत्यत्र कर्मणःप्रयोगासंभवेऽपि हन्ते: स्वाभाविकसकर्मत्वस्यानपायात्।अकर्मकत्वस्य चात्र विवक्षितत्वेन कर्मनिवृत्त्यैव तन्निवृत्तेः 'आङो यमहंनः' इत्यात्मनेपदम् । इत्येवमुद्धताः प्रगल्भा भीमाश्च घोषा येषां तैर्योद्घृभिर्योधैरभ्यमित्रममित्रानभि समुज्झिता मुक्ता विवस्वतोम्ऽशुभिः । प्रतिफलितैरिति भावः । ज्वलिता दीपिता अतएव प्राप्तास्तडितां त्विष इव त्विषो याभिस्ता हेतयः शस्त्राणि खे न पतन्ति । समुल्लसन्तो न दृश्यन्त इत्यर्थः। 'हेतिः स्यादायुधे' इति विश्वः।।
अभ्यायतः सं[१]ततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य । |
अभीति ॥ अभ्यायतो वीरान्हन्तुमभ्यागच्छतः । इणः शतृप्रत्ययः । अन्तकस्य कालस्य संबन्धि संततं सततं धूमवद्धूम्रं व्यापि व्यापकं प्रभाजालमिव स्थितं प्रतूर्णै- र्वेगवद्भिरश्वै रथाङ्गै रथचक्रैश्च नुन्नं प्रेरितं रजो मातरिश्वा मरुद्व्योमन्यन्तरिक्षे न तनोति न विस्तारयति ॥
भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । |
भूरेणुनेति । अत्राहवे रासभो गर्दभस्तद्वद्धूसरेणेषत्पाण्डुना । 'रासभो गर्दभः खरः' इत्यमरः । 'ईषत्पाण्डुस्तु धूसरः' इति च । भूरेणुना रजसा लोचनानां वर्त्मनि चक्षुर्मार्गे तिरोहिते सति तेजस्विभिस्तेजस्विषु वीरेषत्सुकानाम् । वीरवरणार्थमागतानामित्यर्थः । 'प्रसितोत्सुकाभ्यां तृतीया च' इति विकल्पात्तृतीया । सुरसुन्दरीणामह्नि दिवस एव प्रदोषो रात्रिमुखं नास्ति । अन्धकारवत्त्वाद्दृष्टेस्तिरोधानाद्रात्रिभ्रमः स्यादिति भावः ॥
रथाङ्गसंक्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । |
रथाङ्गेति ॥ रथाङ्गसंक्रीडितं रथचक्रकूजितमश्वानां च हेषा ह्रेषितानि शब्दितानि । 'अश्वानां हेषा ह्रेषा च निःस्वनः' इत्यमरः । बृहन्ति महान्ति मत्तद्विपानां बृंहि-