षोडशः सर्गः।
ततः किराताधिपतेरलध्वींमाजिक्रियां वीक्ष्य विवृद्धमन्युः । |
तत इति । ततोऽनन्तरं किराताधिपतेः संबन्धिनीमलध्वीं गुर्वीमाजिक्रियां रण- कर्म वीक्ष्य विवृद्धमन्युर्विवृद्धकोपो विविक्तो निष्कलङ्कस्तर्क ऊहो ज्ञानं वा यस्य सोऽर्जुनः कारणानि रणभराशक्तिकारणानि विचिन्वन्विमृशन्नितीत्थं वक्ष्यमाणप्रकारेण तर्कयामासाभ्यूहितवान् ॥
अथ त्रयोविंशतिश्लोकैर्वितर्कमेवाह-
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः । |
मदेत्यादि ॥ इहास्मिन्युद्धे मदस्रुतिभिर्मदप्रवाहैः श्यामाः कृताः श्यामिता गण्डलेखाः कपोलभागा येषां ते विक्रान्ताः पराक्रमं कुर्वन्तः । कर्तरि क्तः । 'शूरो वीरश्च विक्रान्तः' इत्यमरः । तैर्नरैरधिरूढाः सहिष्णवो रणभरक्षमा युधां युद्धानामभिज्ञाः । शिक्षितां इत्यर्थः । कृद्योगात्कर्मणि षष्ठी। किं च। नगानामुच्छ्रायं पर्वतानामौन्नत्यम् । धञन्तेनोपसर्गस्य समासो नोपसृष्टाद्धञ्प्रत्ययः । 'त्रिणीभुवोऽनुपसर्गे' इत्यत्रानुपसर्ग इति निषेधात् । आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः। तथोन्नता इत्यर्थः । नागा गजा इह सङ्ग्रामे न क्रामन्ति न चरन्ति । यथा युद्धान्तरेष्विति शेषः । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । तथापि कथं मे शक्तिह्रासोऽयमिति सर्वत्र तात्पर्थार्थः ।
विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । |
विचित्रेति ॥ विचित्रया नानावर्णया केतनानां रत्नानि तेषां भासा प्रभया भिन्नां संवलितां रवे रुचं कान्तिं चित्रयता विचित्रवर्णां कुर्वतेव स्थितेनेति केतनौन्नत्य- निमित्तेयमुत्प्रेक्षा । पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महतां रथानामोघेन समूहेन धरित्री न संनिरुद्धा नावृता ॥
समुल्लसत्प्रासमहोर्मिमालं प[२]रिस्फुरच्चामरफेनपङ्क्ति। |
समुल्लसदिति॥इह युद्धे प्रासाः कुन्ताः।'प्रासस्तु कुन्तः'इत्यमरः। ते महोर्मय इव तेषां मालाः समुल्लसन्त्यो यत्र तत्समुल्लसत्प्रासमहोर्मिमालम् । चामराणि