पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
किरातार्जुनीये


कृत आरोपित उच्चैरुन्नतो वानरो हनूमान्येन तं नरं पुरुषम् । कपिध्वजमित्यर्थः। कृपा करुणाविवेश । तदीयदुर्दशां दृष्ट्वा स कृपाविष्टोऽभूदित्यर्थः । यमकालंकारः ॥

  ननु शत्रुघु कथं करुणा तत्राह-

आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥४॥

  आस्थामिति ॥ आस्थां यत्नमालम्ब्य। 'आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते' इति विश्वः । वशं नीतेषु क्षुद्रेषु दुष्टेष्वरातिषु शत्रुषु विषयेऽनुकम्पया कृपया महतां वीराणां माहात्म्यं महानुभावत्वं व्यक्तिं स्फुटतामायाति प्राप्नोति । स्वपौरुषनिर्जिते- ष्वरातिष्वपि करुणा भूषणमेव महतामिति भावः ॥

स सासि: सासुसूः सासो येयायेयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन ॥५॥

  स सासिरिति ॥ सहासिना वर्तमानः सासिः सखङ्गः असून्सुवन्ति प्रेरयन्तीत्यसुसुवो बाणाः । 'वु प्रेरणे' इति धातोः 'सत्सूद्विष-' इत्यादिना क्विप् । असुसूभि: सह वर्तत इति सासुसूः सबाणः । अस्यन्ते क्षिप्यन्ते शरा अनेनेत्यासो धनुः ।'अकर्तरि च कारके संज्ञायाम्' इति घञ् । आसेन सह वर्तत इति सासः सचापः । सर्वत्र 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। येया यातव्या यानसाध्या:। अयेया अयातव्या यानं विनैव साध्याः। 'अचो यत्' इति यत्प्रत्ययः। येयाश्चायेयाश्च येयायेयास्तेषां द्वयानामाये स्वर्णगजादिलाभे याति प्राप्नोतीति येयायेयाययः । अयः शुभावहदैवं याती- त्यययः । येयायेयाययश्चासावययश्चेति येयायेयाययाययः । याधातोरुभयत्रापि 'आतो- ऽनुपसर्गे कः' इति कप्रत्ययः। अतोललति विलसतीति ललः।'लल विलासे'।पचाद्यच्। अलोलोऽचपलः शशिन ईशः शिवस्तस्य शिशुः स्कन्दस्तं शृणाति हिनस्तीति शशीशशिशुशीः। क्विप् । शशन्प्लुतगतिं कुर्वन् । 'शश प्लुतगतौ' इति धातोः शतृप्रत्ययः । सोऽर्जुनो लीलां शोभां ललौ प्राप । 'ला आदाने' कर्तरि लिट् । एकाक्षरपादः ॥

त्रासजिह्मं यतश्चैतान्मन्दमेवान्वियाय सः।
नातिपीडयितुं भन्नानिच्छन्ति हि महौजसः ॥६॥

  त्रासेति ॥ सोऽर्जुनस्त्रासजिह्मं भयक्लिष्टं यथा तथा यतो गच्छतः। पलायमानानित्यर्थः । एतान्गणान्मन्दमेवान्वियायानुजगाम । तथा हि । महौजसो महानुभावा भन्नानतिपीडयितुं नेच्छन्ति ॥

अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥७॥