प्रविततेति ॥ प्रविततानि विस्तृतानि यानि शरजालानि तैश्च्छिन्नमाच्छादित
विश्वान्तरालं येन तस्मिञ्छरसमूहपूरितब्रह्माण्डोदरे पाण्डुसूनावत पवाविर्मण्डल-
माविर्भूतमण्डलं धनुः । आविर्भूतमिति वृत्तौ भूतार्थस्यानुप्रवेशाद्भूतशब्दस्याप्रयोगः ।
विधुवति कम्पयत्यास्फालयति सति भीतभीतेव भीतप्रकारेव जयलक्ष्मीर्विजयश्रीः
कथमपि केनचित्प्रकारेण। महता कष्टेन वा। विषमनयनसेनापक्षपातं शिवसैन्यानुरागं
विहातुं त्यक्तुं विषेहे । शशाकेत्यर्थः । मालिनीवृत्तम् । लक्षणं तूक्तम् ॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय- काव्यव्याख्यायां घण्टापथसमाख्यायां चतुर्दशः सर्गः समाप्तः ॥
पञ्चदशः सर्गः।
अथ भूतानि वार्त्रघ्नशरेभ्यस्तत्र तत्रसुः । |
अथेति ॥ अथानन्तरं तत्र रणे भूतानि सर्वप्राणिनः । वृत्रं हतवानिति वृत्रहेन्द्रः । 'ब्रह्मभ्रूणवृत्रेषु क्विप्'। तस्यापत्यं पुमान्वार्त्रघ्नोऽर्जुनः।'तस्यापत्यम्'इत्यण्प्रत्ययः। तस्य शरेभ्यस्तत्रसुर्बिभ्युः । 'वा जृभ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । सा चमूश्च । इषवोऽस्यन्त एभिरितीष्वासा धनूंषि । 'धनुश्चापोऽस्त्रमिष्वासः' इति हेमचन्द्रः। 'अकर्तरि च कारके संज्ञायाम्' इति करणे घञ् । परित्यक्ता महान्त इष्वासा यया सा। परित्यक्तायुधेत्यर्थः। दिशो भेजे । पलायांचक्र इत्यर्थः । अत्र भूतत्राससेनापलायनयोः समुञ्चयकथनाद्भिन्नविषयः क्रियासमुच्चयोऽलंकारः ।'गुण- क्रियायौगपद्यं 'समुच्चयः' इति सामान्यलक्षणम् । तस्य यमकेन संसृष्टिः॥
अपश्यद्भिरिवेशानं रणान्निववृते गणैः। |
अपश्यद्भिरिति ॥ गणैः प्रमथैरीशानं स्वामिनं शिवम् । पुरोवर्तिनमिति भावः । अपश्यद्भिरिव रणान्निववृते निवृत्तम्। भावे लिट्। तथा हि। कृच्छ्रेष्वापत्सु संभ्रमेण साध्वसेन ज्वलितं तप्तम् ।'संभ्रमः साध्वसेऽपि स्यात्' इति विश्वः । मनो मुह्यत्येवः । अतः पुरोवर्तिनोऽप्यदर्शनमुपपद्यत इति भावः ।।
खण्डिताशंसया तेषां पराङ्मुखतया तया । |
खण्डितेति ॥खण्डिता ध्वस्ताशंसा जयाशा यस्यास्तया तेषां गणानां संबन्धिन्या तया । अतिसंनिकृष्टयेत्यर्थः । पराङ्मुखतया रणवैमुख्येन । पलायनेनेत्यर्थः। केतौ ध्वजे