जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा। |
जयेनेति ॥ कच्चिदयं रणाज्जयेन विरमेत् । अस्माञ्जित्वा कच्चिदयं युद्धमुपसंहरेदित्यर्थः । अपि चराचराय स्वस्ति भवेत्कच्चित् । अपि स्थावरजङ्गमं जगन्न विनश्येदित्यर्थः । अपिशब्दः संभावनायाम्। प्रार्थनायां लिङ् । इति प्रतर्का: पूर्वोक्ता ये वितर्कास्तैराकुलिता विह्वला । अत्र सहेतुकं विशेषणमाह--नृपसूनुमार्गणैरर्जुनबाणैः कीर्णा क्षिप्तां पताकिनी सेना। किरातपतेरिति शेषः। तताप तापं प्राप॥
अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः। |
अमर्षिणेति ॥ अमर्षिणा क्रोधवता क्षमाश्रयं शान्तिसाध्यं कृत्यमिव । यथा मदो- द्धतेन पुंसा हितं प्रियं वचो निरस्तं तिरस्कृतमिव । यथा बलीयसा बलवत्तरेण विधिना दैवेन निरस्तं पौरुषमिव ! बलिष्ठदैवप्रतिहतपुरुषव्यापारस्य निष्फलत्वादिति भावः। तथा जिष्णुनार्जुनेन निरस्तं क्षिप्तं बलं किरातसैन्यं न रराज। मालोपमा।।
प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः । |
प्रतिदिशमिति ॥ प्लवगानामधिपोऽधीशो लक्ष्म यस्य तेन वानरचिहेन । 'कपिप्लव- ङ्गप्लवग-' इति, 'चिह्नं लक्ष्म च लक्षणम्' इति चामरः । अर्जुनेन विशिखसंहति- तापितमूर्तिभिरिति विशिखा बाणास्तेषां संहृतयः समूहाः। 'स्त्रियां तु संहृतिवृन्दम्' इत्यमरः । ताभिस्तापिताः पीडिता मूर्तयो देहा येषां तैस्तथाभूतैः । शरनिकरकर्ति- तकलेवरैरित्यर्थः। शिवबलैः प्रथमसैन्यैः कर्तृभिः रविकरेण ग्लपितैः सूर्यकिरणशोषि- तैर्वारिभिरुदकैरिव प्रतिदिशं दिक्षु परिमण्डलता । परितश्चक्राकारमण्डलतेति यावत् ।" दधेऽधारि।प्रतिदिशं मण्डलाकारेण स्थितमित्यर्थः।धाञ: कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीडितं सैन्यं बभ्रामेत्यर्थः। द्रुतविलम्बितं छन्दः- 'द्रुतविलम्बितम्ग्रह नभौ भरौ' इति लक्षणात् ॥
प्र[३]विततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ । |
इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।