पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
किरातार्जुनीये


  हीनजातिवृत्तित्वात्सख्यानर्हः स इत्याह-

वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥२२॥

  वयमिति ॥ वर्णाश्रमरक्षणोचिता विशुद्धवृत्तयो वयं राजानः क्व । जातिहीना मृग- जीवितच्छिदो हिंसाजीविनो व्याधाः क्व । फलितमाह-अपकृष्टैरुक्तरीत्या जात्या वृत्त्या च निकृष्टैः सह महतां ताभ्यामेवोत्कृष्टानां संगतं सख्यं न । घटत इति शेषः । तथा हि । दन्तिनो गजा गोमायूनां शृगालानां सखायो गोमायुसखा न भवन्ति । 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥' इत्यमरः । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥

  नीचसख्यं कथमधिक्षिप्यत इति चेत्तत्राह-

परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥२३॥

  पर इति ॥ अज्ञताजडो मोहान्धः परोऽवजानाति यत्तदवज्ञानमुन्नतानां महतां धीरतां निर्विकारचित्तत्वं न विहन्ति । विकारं जनयतीत्यर्थः । क्रोष्टेव सिंहस्येति भावः । किं तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमा येषां तेषु मध्ये । निर्धारणे सप्तमी । यः । कश्चिदित्यर्थः । अतिक्रान्तिमतिक्रमं करोति चेदसौ सदृशजनातिक्रमस्तिरस्क्रिया तिरस्कारः । यथा सिंहे सिंहस्येति भावः ॥

  तर्हि नीचे कीदृशी वृत्तिरित्याशङ्क्य सोपपत्तिकमाह--

यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥२४॥

  यदेति ॥ यदा विगृह्णाति विरुणद्धि ! पृथग्जनेनेति शेषः। तदा यशो हतं नाशितं भवेत् । अथ मैत्रीं करोति तदा गुणा दूषिताः।भवेयुरिति शेषः। इत्युभयथा स्थितिं समीक्ष्य प्रतर्क्य विमृष्य परीक्षको विवेचकः पृथग्जनं नीचजनमवज्ञयानादरेणोपहतं तिरस्कृतं करोति । उपेक्षत इत्यर्थः ॥

  उपसंहरन्नाह-

मया मृगान्हन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् ।
शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥२५॥

  मयेति ॥ अनेन हेतुना संधिविग्रहानर्हत्वेन कारणेन मया मृगान्हन्तुर्व्याधस्य संबन्धि। हन्तेस्तन्प्रत्ययः । अतएव 'न लोक-'इत्यादिना षष्ठीप्रतिषेधः। विरुद्धमतिपरु-