पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
चतुर्दशः सर्गः।


  अथ परेङ्गितमुद्धाट्य भयं दर्शयति-

अभूतमासज्य विरुद्ध[१]मीहितं बलादलभ्यं तव लिप्सते नृपः।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥१९॥

  अभूतमिति ॥ तव नृपोऽभूतमनृतमासज्य । मिथ्याभियुज्येत्यर्थः । 'युक्ते क्ष्मादावृते भूतम्' इत्यमरः।अलभ्यं लब्धुमशक्यं विरुद्धं विपरीतफलकमीहितं मनोरथं बलाल्लिप्सते लब्धुमिच्छति। न चैतच्चित्रमित्याह-हि यस्मादनयस्य दुर्नयस्य रौद्रतां भयंकरत्वं विजानतोऽपि पुरुषस्य मतिर्बुद्धिरपाये विनाशकाले परिमोहिनी भवति । परिमुह्यतीति परिमोहिनी । संपृचादिसूत्रेण ताच्छील्ये घिनुण्प्रत्ययः । प्रायेण विनाशकाले विपरीतबुद्धिर्भवतीति भावः ।।

  अथ सर्वथा लभ्यस्ते शरस्तर्हि किमनेन । सुष्ठु विश्रब्धं याच्यतां शरोऽन्यद्वेत्याह-

असिः शरा वर्म धनुश्च नोच्चकैर्विवि[२]च्य किं प्रार्थितमीश्वरेण ते ।
अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥२०॥

  असिरिति । असिः खड्ग: शरा वर्म कवचमुच्चकैरुत्कृष्टं धनुश्च धनुर्वा ते तवेश्वरेण स्वामिना विविच्यैकैकशो विभज्य किं न प्रार्थितं न याचितम् । येन प्रयोजनं तद्दास्यामीति भावः । नपुंसकैकशेषः । अथास्य वीराभिमानिनो नृपस्य शक्तिरस्ति । चेदिति शेषः। याच्ञया कृतमेवालमेव । साध्याभावान्न याचितव्यमेवेत्यर्थः । गम्यमानक्रियापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । कृतमिति निषेधार्थमव्ययम् । यतः शक्तिमतां स्वयंग्रहो बलाद्ग्रहणं न दूषितः । किंतु भूषणमेव वीराणामिति भावः ॥

  'राघवप्लवगराजयोरिव' इत्यादिनोपदिष्टं सख्यं प्रत्याचष्टे---

सखा स युक्तः क[३]थितः कथं त्वया यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥२१॥

  सखेति ॥ स नृपः कथं त्वया युक्तो योग्यः सखा कथितः । न कथंचित्कथनीय इत्यर्थः।कुतः। यो नृपस्तपस्यते तपश्चरते । अनपराधिन इत्यर्थः।'क्रुधद्रुह-' इत्यादिना संप्रदानत्वाच्चतुर्थी । यदृच्छया स्वैरवृत्त्या । 'यदृच्छा स्वैरिता' इत्यमरः । अस्यत्यसूयां करोति । 'असूया तु दोषारोपो गुणेष्वपि' इत्यमरः । प्रत्युत शत्रुरेवायमित्या- ह-हि यस्माद्गुणानामर्जने य उच्छ्राय उत्कर्षस्तस्य विरुद्धा विमुखा बुद्धिर्येषां ते तथा साधवो दुष्टाः सतां सज्जनानां प्रकृत्यमित्राः प्रकृत्या शत्रवः 'द्विड्विपक्षाहितामित्रदस्यु- शात्रवशत्रवः' इत्यमरः॥


  1. 'ईदृशम्' इति पाठः
  2. 'विवृत्व' इति पाठः
  3. 'सखितः' इति पाठः