षमाक्षेपवचस्तिरस्कारवचनं तितिक्षितं सोढम् । ननु सख्यानङ्गीकारे बलाच्छरं ग्रहीष्यती-
त्याशंक्याह-शरेति । अथ शरार्थमेष्यति दृष्टौ विषं यस्य तस्माद्दृष्टिविषात्सर्प-
विशेषाच्छिरोमणिं जिघृक्षतो ग्रहीतुमिच्छतो गतिं दशां लप्स्यते प्राप्स्यति ।।
इतीरिताकूतमनीलवाजिनं जयाय दूतः प्र[१]तितर्ज्य तेजसा । |
इतीति ॥ इतीत्थमीरिताकूतमुक्ताभिप्रायमनीलवाजिनं श्वेताश्वमर्जुनं दूतो जयाय तेजसा प्रतापेन प्रतितर्ज्य । अस्मानजित्वा क्व गमिष्यसीति भीषयित्वेत्यर्थः । ध्वजि- नीमुपेयुषः सेनासंगतस्य प्रसन्नरूपस्य । अर्जुनं प्रतीति शेषः । विरूपचक्षुषस्त्र्यम्बकस्य समीपं ययौ ।
ततोऽपवादेन पताकिनीपतेश्वचाल निर्हादवती महाचमूः। |
तत इति ॥ ततः पताकिनीपतेः सेनापतेरपवादेनादेशेन ! 'अपवादोऽप्यथादेशः' इति सज्जनः । निर्हादवती शब्दवती महाचमूः सेना युगान्तवातैरभिहता आन्दोलिता अत एव निनादं कुर्वत्यम्भोनिधिवीचिसंहतिरर्णवोर्मिसमूह इव चचाल ॥
रणाय जै[२]त्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितके[३]तुसंततिः। |
रणायेति ॥ जेतैव जैत्रो जयनशीलः । अनुकूल इत्यर्थः । जयतेस्तृन्नन्तात्मज्ञादि- स्वात्स्वार्थेऽण्प्रत्ययः। तरङ्गितं संजाततरङ्गं यथा तथालम्बिता अवस्थिताः केतुसंततयो येन सः। सह धनैः सान्द्रैरम्बुशीकरैः सघनाम्बुशीकरः सुरभिः सुगन्धः समीरणो वायू रणाय त्वरां प्रदिशन्निव स्वरयन्निव बलानां सैन्यानां पुरोऽग्रे शनैः प्रतस्थे प्रस्थितः । ववावित्यर्थः ॥
जयारवक्ष्वेडितनादमूर्च्छितः शरासनज्यातलवारणध्वनिः । |
जयेति॥जयारवैर्बन्दिनां जयजयेतिशब्दैः क्ष्वेडितनादैः सिंहनादैश्च भूर्च्छितो वर्घितः शरासनज्यानां धनुर्गुणानां तलवारणानां ज्याघातवारणानां च ध्वनिर्भूधरराजकुक्षिषु, गिरिगुहास्वसंभवन्नमान्।अवकाशमलभमान इत्यर्थः।अत एव गां भुवं प्रकम्पयन्। एतेन बलानां बाहुल्यमुक्तम् । दिशोऽवतस्तरे व्यानशे । 'ऋतश्च संयोगादेर्गुणः। अत्र मूर्च्छापदार्थस्य विशेषणगत्वासंभवनहेतुत्वात्काव्यलिङ्गरूपम्। गिरिकुक्षि- रूपापेक्षया ध्वनेराधेयस्याधिक्योक्तेरधिकालंकारश्च । तेभ्यश्चेयमसंभवन्निति व्यञ्जकं विनोत्थाप्यमानोपात्तमूर्च्छागुणनिमित्ता प्रतीयमाना क्रियोत्प्रेक्षा। तैरङ्गाङ्गि- भावेन संकीर्यत इति संकरः ॥