पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
द्वादश: सर्गः।


  न चैतदुपेक्ष्यमित्याशयेनाह-

स तदोजसा विजितसारममरदितिजोपसंहितम् ।
विश्वमिदमपिदधाति पुरा किमिवास्ति य[१]न्न तपसामदुष्करम् ॥२९॥

  स इति ॥ स पुमानोजसा विजितसारं निरस्तसत्त्वम् । अमरदितिजोपसंहितं सुरा- सुरसहितं तदिदं विश्वं पुरापिदधाति । अपिधास्यतीत्यर्थः । शीघ्रमेव हारष्यताति भावः। 'निकटागामिके पुरा' इत्यमरः । 'यावत्पुरानिपातयोलट्' इति भविष्यदर्थे लट् । तथाहि । यत्कर्म तपसामदुष्करं तत्किमिवास्ति । न किंचित्तेन दुष्करमस्तीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥

  न चैतदन्यफलकं तप इत्याह-

विजिगीषते यदि जगन्ति युगपदथ संजिहीर्षति ।
प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः॥३०॥

  विजिगीषत इति ॥ स पुरुषो जगन्ति भुवनानि युगपद्विजिगीषते यदि विजेतुमिच्छति वा। 'पूर्ववत्सनः' इत्यात्मनेपदम् । अथ युगपत्संजिहीर्षति संहर्तुमिच्छति वा। अभवमपवर्गं प्राप्तुमभिवाञ्छति वा । न विद्मो वयमिति शेषः । किं तु । वयमप्यस्य रुचस्तेजांसि विषहितुं सोढुम्। 'तीषसहलुभरुषरिषः' इति विकल्पादिडागमः । नो क्षमा न शक्ताः । केचित् 'रुचः कामितानि विषहितुमवधारयितुम्' इति व्याचक्षते । तत्र सहेरवधारणार्थत्वं विचार्यम् ॥

किमुपेक्षसे कथय नाथ न[२]तव विदितं न किंचन ।
त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः॥३१॥

  किमिति ॥ हे नाथ, किं किमर्थमुपेक्षसे कथय । त्वमिति शेषः। तव न विदितम् । त्वयाज्ञायमानमित्यर्थः।'क्तस्य च वर्तमाने' इति षष्ठी।न किंचन किमपि न । हे अभयद, नोऽस्मानलं त्रातुमर्हसि । त्वयि शासति सति पराभवो मा स्म भवन्माभूत्। स्मोत्तरे लङ् च' इति लङ् ॥

इति गां विधाय विरतेषु मुनिषु वचनं समाददे।
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः॥३२॥

  इतीति ॥ इतीत्थं गां वाचं विधाय । अभिधायेत्यर्थः । सामान्यस्य विशेषपर्यवसानात् । मुनिषु विरतेषु तूष्णींभूतेषु सत्सु । अन्धकान्तकः शिवो भिन्नस्योद्वेलस्य जलधेर्जलस्य नादमिव गुरु गम्भीरं यथा तथा दिशां विवरमन्तरालं ध्वनयन्वचनं समाददे स्वीचकार । उवाचेत्यर्थः।।


  1. 'यन्न बत तेन दुष्करम्'; 'तेन खलु यत्र दुष्करम्'; यन्न सुकरं खलु तेन' इति पाठाः
  2. 'तवन' इति पाठः