पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
किरातार्जुनीये


मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः।
पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥२५॥

  मुनय इति ॥ ततो दर्शनानन्तरं मुनयोऽभिमुखमेत्य । शिवस्येति शेषः । नयनविनि- मेषेण नेत्रसंज्ञया नोदिताः प्रेरिताः सन्तः पाण्डुतनयस्यार्जुनस्य तपसा जनितं तत्पूर्वोक्तं जगतामशर्मासुखम् । दुःखमित्यर्थः । 'शर्मशातसुखानि च' इत्यमरः । भृशं सम्य- गाचचक्षिरे कथितवन्तः।।

तरसैव कोऽपि भुवनैकपुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥२६॥

  तरसेति॥ हे भुवनैकपुरुष,वृत्रो वृत्रासुर इव भीमविग्रहः कोऽपि। अविज्ञात इत्यर्थः। पुरुषस्तरसा बलात्कारेणैव । 'तरसी बलरंहसी' इति विश्वः । अमलवपुष उज्वलमूर्ते रवेरपि ज्योतिरभिभूय तपस्यति तपश्चरति । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरो:' इति क्यङ् ॥

स धनुर्महेषुधि बिभर्ति कवचमसिमुत्तमं जटाः।
वल्कमजिनमि[१]ति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥२७॥

  स इति ॥ किं च । स पुरुषो महान्ताविषुधी यस्य तन्महेषुधि धनुः कवचं वर्मोत्तममसिं खड्गं जटा वल्कं चीरमजिनं चर्म च बिभर्ति । इत्येवंरूपमिदं विरुद्धवेषधारणं मुनिताविरोधि मुनित्वप्रतिबन्धकं तथाप्यस्य न राजत इति न । किं तु राजत एषेत्यर्थः । चित्रमाश्चर्यम् । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः ॥

चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् ।
स्तम्भमनुभवति शान्तमरुद्रहतारकागणयुतं नभस्तलम् ॥२८॥

  चलन इति ॥ किं च । तस्य पुंसश्चलनेऽवनिः पृथिवी चलति । तथा करणनियमे समाधिष्विन्द्रियसंयमे सति।'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः। सदिङ्मुखं दिक्सहितं शान्तैः स्तिमितैर्मरुतां वायूनां ग्रहाणां सूर्यादीनां तारकाणां गणैर्युतं नभस्तलं व्योम स्तम्भं निश्चलतामनुभवतीत्यर्थः । अतो विश्वातिशायिनी तस्य शक्ति- रुपलभ्यत इति भावः॥


२४-२५ श्लोकयोर्मध्ये क्वचित्क्षेपकोऽयं दृश्यते-

बहुभिश्च बाहुभिरहीनभुजगवलयैर्विराजितम् ।
चन्दनतरुभिरि[२]वालधुभिः प्र[३]बलायतैर्मलयमेदिनीभृतम् ।

  बहुभिरिति । अहीनां सर्पाणां मध्ये य इनाः श्रेष्ठा भुजगास्त एव वलयानि येषां तैः । सर्पाभरणैरित्यर्थः । बहुभिरनेकैर्बाहुभिः। सहस्रभुजत्वात्तस्येति भावः । विराजितं शोभितं चन्दनतरुभिरनेकैर्मलयमेदिनीभृतमिव स्थितम् । चन्दनतरवोऽप्यहीना महान्तो भुजगास्तेषां वलयो वेष्टनं येषां तैरिति । अलघुभिर्महद्भिःप्रबलाश्च त आयताश्च तैरुभयविशेषणम् । प्रबलदीर्घैरित्यर्थः । अथवा । अमलायतैरमला निर्मलाश्च ते तैः । उपमालंकारः ॥

  1. 'अतनुभिः' इति पाठः
  2. 'अतिचित्रम्' इति पाठ:
  3. 'अमलायत:,'धवलायतै; इति पाठौ