पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
द्वादश: सर्गः।


महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना।
ह्रीतमिव नभसि वीतमले न विरा[१]जते स्म वपुरंशुमालिनः ॥१३॥

  महतेति ॥ जिष्णोरर्जुनाज्जन्म यस्य तेन । जन्मोत्तरपदत्वाद्यधिकरणो बहुव्रीहिः। महता मयूखनिचयेन बहुकिरणसमूहेन शमितरुचि हतप्रभमंशुमालिनो वपुरर्कबिम्बं ह्रीतं जितत्वाल्लज्जितमिवेत्युत्प्रेक्षा । वीतमले विमले । मेघनीहाराद्यावरणरहितेऽपीत्यर्थः । नभसि न विराजते स्म ॥

तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः।
रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पु[२]रीः॥ १४ ॥

  तमिति ॥ उदीरिता उद्गाता अरुणा जटानामंशवो यस्य तमधिगुणमधिज्यं शरासनं यस्य तमर्जुनं जनाः सिद्धगणा आसुरीरसुरसंबन्धिनीः पुरीर्मिमन्थियुं मथितुमिच्छुम् । मथेः सन्नन्तादुप्रत्ययः । तथानुदितानुत्पन्ना ललाटे दृग्यस्य तं साक्षात्रिपुरविजयो- द्यतमभालाक्षं रुद्रामिव ददृशुः । अत्रामालाक्षस्य रुद्रस्यासंभवात्स्वतःसिद्धोपमाना- सिद्धेर्नेयमुपमा । किंतूत्प्रेक्षा । सा चामालाक्षमित्युपमानादुपमेयस्य न्यूनत्वकथनार्थे- ऽन्वयव्यतिरेकेणोज्जीवितेत्यनयोरङ्गाङ्गिभावेन संकरः । उपमा तु व्यज्यत इत्यलंकारे- णालंकारध्वनिः ॥

मरुतां पतिः स्विदहिमांशुरु[३]त पृथुशिखः शिखी तपः।
तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ १५॥

  मरुतामिति । मरुतां पतिः स्विद्देवेन्द्रो वा । अहिमांशुरुत सूर्यो वा । पृथुशिखो महाज्वालः शिखी पावको वा । असुकरं दुष्करं तपस्तप्तुमुपक्रमते । अयं जनः पुरुषः कश्चित्प्राकृतो नेति सोऽर्जुनस्तापसैस्तपस्विभिः। 'अण् च' इति मत्वर्थीयोऽण्प्रत्ययः। अवययेऽवगतः । यातेरवपूर्वात्कर्मणि लिट् । अत्रेन्द्रत्वादिकमारोप्य जनत्वापवादा- त्साम्यमारोप्यापह्नवालंकारः। सामान्य लक्षणं तु -निषिद्धविषये साम्यारोपो ह्यपह्नवः' इति ॥

न ददाह भू[४]रुहवनानि हरितनयधाम दूरगम् ।
न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १६ ॥

  न ददाहेति ॥ दूरगम् । व्यापकमित्यर्थः। हरितनयस्येन्द्रसुतस्यार्जुनस्य धाम तेजो भूरुहवनानि वृक्षखण्डान्न ददाह । अग्निवदिति भावः । तथापो जलानि परिशोषं न नयति स्म । अर्कवदिति भावः । तथापीति शेषः । सिद्धाश्च तापसाश्च तैः सुसहं न बभूव । अतोऽस्यालौकिकं तेज इति भावः । अत एव दुःसहत्वदाहाद्यजनकत्वयोर्वि-


  1. 'विराजति' इति पाठः
  2. 'पुर' इति पाठः
  3. 'अर्थ' इति पाठः
  4. 'भूधर' इति पाठः