रोधाद्विरोधाभासोऽलंकार:-'आभासत्वे विरोधस्य विरोधालंकृतिर्मता' इति लक्षणात् ॥
विनयं गुणा इव विवेकमपनयभिदं नया इव । |
विनयमिति ॥ अथोऽनन्तरमशरणा महर्षयो मुनयो विनयं शिक्षां गुणा औदार्यादय इव।अशिक्षितस्य तदभावादिति भावः। अपनयभिदं दुर्नीतिवारकं विवेकं सदसज्ज्ञानं नया नीतय इत । अविवेकिनो नीत्यभावादिति भावः । नीतिः षाङ्गुण्यप्रयोगः। नीयतेऽनेनेति न्यायो नियामकं प्रमाणं तम् । अवधयः समया इव । अप्रामाणिकस्य समयोल्लङ्घनादिति भावः। शिवं शरणं रक्षितारम् । 'शरणं गृहरक्षित्रोः' इत्यमरः। ययुर्जग्मुः।शरणत्वेन प्रापुरित्यर्थः । अशरणाः शरणमिति चोपमास्वपि यथायोग्यं योज्यम् । उपमालंकारः॥
परिवीतमंशुभिरुदस्तदिनकरमयूखमण्डलैः । |
परिवीतमिति ॥ उदस्तं निरस्तं छादितं दिनकरमयूखमण्डलं यैस्तैः । सूर्यतेजोविजयि- भिरित्यर्थः । अंशुभिस्तेजोभिः परिवीतं व्याप्तं शंभुं शिवमुपहृतदृशः प्रतिहतदृष्टयस्ते महर्षयः सहसा झटिति निचायितुं निशामयितुम् । द्रष्टुमित्यर्थः । 'चायृ पूजानिशा- मनयोः' इति धातोः 'शकधृषा-' इत्यादिना तुमुन् । नाभिप्रसेहिरे न शेकुः ॥
अथ भूतभव्यभवदीशमभिमुखयितुं कृतस्तवाः । |
अथेति ॥ अथ दृगुपघातानन्तरं भूतभव्यभवतां भूतभविष्यद्वर्तमानानामीशं देवमभिमुखयितुमभिमुखीकर्तुं कृतस्तवाः कृतस्तोत्राः सन्तः । न त्वन्यथेति भावः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । तत्र पूर्वोक्ते महसि तेजसि कमनीयविग्रहं रम्यमूर्तिमयुग्मानि त्रीणि लोचनानि यस्य तं पुरुषं ददृशुः॥
अथ पञ्चभिः पुरुषं विशिनष्टि-ककुद इत्यादिना ।।
ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि । |
कीदृशं पुरुषम् । अकृशेन महता परिणाहेन विशालतया शालत इति तथोक्ते । 'परिणाहो विशालता' इत्यमरः । वृषस्य वृषभस्य ककुदेंऽसकूटे । आश्रयीकृत इति
- ↑ 'नियायितुम्': 'निरीक्षितुम्' इति पाठौ