पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
किरातार्जुनीये


  निहितेति ॥ निहिता आरोपिताः सरसयावकाः सान्द्रलाक्षारागा येषु तैर्वधूनां चरणतलैश्चरणन्यासैः कृतपद्धतिः कृतमार्गरेखा । अत एवारुणिता अरुणीकृता नीला- स्तृणोलपास्तृणानि दूर्वादीन्युलपा वल्वजाख्यास्तृणविशेषाश्च यस्याः सा । 'उलपा वल्वजाः प्रोक्ता:' इति हलायुधः। 'उलपा उशीरतृणानि' इति क्षीरस्वामी । ब्राह्मण- परिव्राजकवदुलपानां पृथङ्निर्देशः । धरित्री शक्रगोपैरिन्द्रगोपाख्यैः कीटकैः । 'इन्द्र- गोपस्त्वग्निरजः' इति हैमः । अविरलं निरन्तरं यथा तथा वितता व्याप्तेवेत्युत्प्रेक्षा । बभासे॥

ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥ ४ ॥

  ध्वनिरिति ॥ अगविवरेषु नगरन्ध्रेषु । गुहास्वित्यर्थः । प्रतिरवैः प्रतिध्वनिभिर्विततः सम्मूर्च्छितः पृथुभी रशनागुणानां शिञ्जितैः स्वनितैरनुयातोऽनुगतः । मिलित इति यावत् । 'स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्' इत्यमरः । नूपुराणां ध्वनिभि- र्ध्वनैर्वनानि मुखराः शब्दायमानाः समुत्सुका उत्कण्ठिता हंसाःसारसाश्च येषां तानि चक्रे । अत्र हंसादिषु मुखरसमुत्सुकीकरणरूपेण वस्तुना तेषां नूपुरादिध्वनौ सादृश्याद्धंससारसान्तरकूजितभ्रान्तिप्रतीतेर्भान्तिमदलंकारो व्यज्यते ॥

अवचयपरिभोगवन्ति हिंस्त्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः॥५॥

  अवचयेति ॥ अवचयः पुष्पफलादिच्छेदनम् । परिभोग उपभोगः । तद्वन्ति हिंस्त्रा घातुका व्याघ्रादयः। 'शरारुर्धातुको हिम्स्र:' इत्यमरः। तैः सहचरिताः सहचरन्तः । कर्तरि क्तः। 'मतिबुद्धि--'इत्यादिसूत्रेण चकारात्सुप्तशयितादिवद्वर्तमानार्थता । अन्ये हिंस्त्रेतरे मृगा हरिणादयो येषु तानि सहचरितान्यमृगाणि काननानि ।तथा समुदितेन साध्वसेन विक्लवं विवशं चेतश्च वधूभ्यः । 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी । अभितो मुनिमभिदधुः । आसन्नं सूचयामासुरित्यर्थः । अवचयादिलिङ्गचतुष्टये- नासन्नो मुनिरित्यन्वमीयतेत्यर्थः ॥

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार तेजः।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥६॥

  नृपतिमुनिपरिग्रहेणेति ॥ सा भूर्नृपतिरेव मुनिस्तस्य परिग्रहेणाधिष्ठानेन हेतुना सुरसचिवानां गन्धर्वाणामप्सरसां च तेजो जहार । तदाश्रमप्रवेशादेव निस्तेजस्का अभूवन्नित्यर्थः । ननु कथं मानुषेण तेजसामानुषं तेजो निरस्तमित्याशङ्क्याह-हि यस्मादुपहित आहिते परमे प्रभावधाम्नी सामर्थ्यतेजसी येषां तेषां जयिनां जयनशीला-