लालसाः कथं विरहमसहन्तेत्यर्थः । श्रुतिपूर्णोपमालंकारः। मालिनीवृत्तम् । लक्षणं
तूक्तम् ।।
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य-
व्याख्यायां घण्टापथसमाख्यायां नवमः सर्गः समाप्तः।
दशमः सर्गः।
अथागन्तुकसहजशोभासंपन्नतया समग्रसाधनाः स्त्रियो मुनिमनःप्रलोभनार्थं प्रास्थन्नित्याह--
अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः। |
अथेति ॥ अथ प्रभाते परिमलजां संभोगसंभूतां लक्ष्मीं शोभामवाप्य । संभोग: स्यात्परिमले' इति वैजयन्ती । संभोगात्स्त्रियः शोभन्त इति भावः । एतेनागन्तुकशोभा- संपत्तिरुक्ता । अत एव सुरतादिवर्णनस्य प्रस्तुतोपयोगित्वं चोक्तम् । अथ सहज- शोभासंपत्तिमाह-अवयवेति । अवयवैः स्तनादिभिर्दीपिता मण्डिता च मण्डनश्री: प्रसाधनशोभा याभिस्ताः। रम्यहावा मनोहरविलासास्ताः स्त्रियः । 'हावो विलास- श्चेष्टायाम्' इति विश्वः। वसतिं शिबिरमभिविहाय सर्वतस्त्यक्त्वा सुरपतिसूनोरर्जुनस्य विलोभनाय जग्मुः। अत्रावयवदीपकतया प्रसिद्धस्य मण्डनस्य तद्दीप्यत्वासंबन्धेऽपि संबन्धाभिधानादवयवसौन्दर्यातिशयद्योतनार्थत्वादतिशयोक्तिरलंकारः । अस्मिन्सर्गे पुष्पिताग्रावृत्तम्-~-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणाद् ॥
द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रमलाघवेन तासाम् । |
द्रुतेति ॥ गगनपरिक्रमलाधवेन गगनगमनवेगेन द्रुतपदं यथा तथाभियातुं गन्तुमिच्छतीनाम्। किं च । पृथुस्तनीनां तासामप्सरसाम् । किं च। अलधुनितम्बतया न लघवो नितम्बा यासां तासां भावस्तत्ता तथा स्थूलनितम्बतया चरणैरवनिषु चिरं निषेदे स्थितम् । अभ्यासपाटवेन मनसात्वरमाणानामपितासांस्तनजधनभाराच्चरणा नोत्तस्थुरित्यर्थः ॥
निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् । |