नाम् । 'महताम्' इति पाठे महत्तामुत्कटानाम् । तपसामलङ्घ्यं नास्ति । किमप्यसाध्यं
नास्तीति भावः ॥
सचकितमिव विस्मयाकुलाभिःशुचिसिकतास्वतिमानुषाणिताभिः |
सचकितमिति ॥ विस्सयाकुलाभिस्ताभिः स्त्रीभि: कर्त्रीभिः शुचयः सिकता यासु तासु । पादरेखाभिव्यक्तियोग्यास्वित्यर्थः । क्षितिषूपहितानि विन्यस्तानि केतुरथाङ्ग- लाञ्छनानि रेखास्वरूपध्वजचक्राण्येव चिह्नानि येषु तान्यत एवातिमानुषाणि जिष्णो- रर्जुनस्य पदानि सचकितमिव सभयमिव यथा तथा दद्दशिरे दृष्टानि । अद्भुतवस्तु- दर्शनाद्भयविस्मयौ भवत इति भावः ॥
अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् । |
अतिशयितेति ॥ अतिशयितातिक्रान्ता बनान्तराणां द्युतिर्याभिस्तासाम् । कुतः। फलानां कुसुमानां चावचयेऽपि लवनेऽपि सैव विधा प्रकारो यासां तद्विधानाम् । तथैव समग्राणामित्यर्थः। तरूणां वीरुधां समृद्ध्या लिङ्गेन युवतिजनैर्मुनिप्रभावो ऋतुरिव जगृहे निश्चितः । कारणतयेति शेषः । उपमालंकारः॥
मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः। |
मृदितेति ॥ ससलिलमार्द्रं यद्वल्कलं तदेव भारस्तेन भुग्नशाखो नम्रशाखः । 'वल्कं वल्कलमस्त्रियाम्' इत्यमरः । अत एव मृदितकिसलयो विलुलितपल्लवः । 'क्वचिन्न' इति प्रतिषेधान्न मृदेर्गुणः। अशोको वृक्षविशेषः सुराङ्गनानामप्सरसां संवन्धिनीमधिकां बहुमतिं तत्कर्तृकसंमानं सज्जनसेवि धन्योऽयमिति ययौ प्राप । ननु सेवकेषु का श्लाघेत्यत्राह-परीति । सद्गुणानां महतां परिजनताप्यनुचरत्वमपि । भावे तल् । गुणायोत्कर्षाय । भवतीति शेषः। एतेन तासां मुनेः प्रभावदर्शनादेव तत्पारवश्यं। गम्यते ॥
यमनियमकशीतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । |
यमेति ॥ यमो देशकालाद्यनपेक्षया शुद्धिहेतुरहिंसादिः। नियमस्तदपेक्षया शुद्धिहे- तुस्तपःस्वाध्यायादिः । ताभ्यां कृशीकृतान्यपि स्थिराणि दृढान्यङ्गानि यस्य सः । विधृ- तायुधो धृतशस्त्रोऽत एव तपःक्षात्रयुक्तःसोऽर्जुनः शमः शान्तिरभ्युदयकाण्डे दीप्ततो- ग्रताभिचारकाण्डे ताभ्यामनुपमाभ्यां गरीयानुदग्र: । अथर्वणा वसिष्ठेन कृता रचिता