पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
किरातार्जुनीये


विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ।
अनपेतकालमभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ॥३०॥

  विदिता इति ॥ वनचरा इत्यनुवर्तनीयम्। विदिता ज्ञाताः । अनुमतप्रवेशाः सन्त इत्यर्थः । प्रविश्य विहितानतयः कृतप्रणामा अधिकृतकृत्यस्य नियुक्तकर्मणः शैलरक्षणा- त्मकस्य विधावनुष्ठाने शिथिलीकृते सति । अनपेतकालमनतिक्रान्तकालं यथा तथा गोत्रभिदे शकायेति वक्ष्यमाणप्रकारेणाभिरामकथाः श्राव्यवाचः । 'चिन्तिपूजिकथि- कुम्बिचर्चश्च' इत्यङ्प्रत्ययः । कथयांबभूवुः ॥

शुचिवल्कवीतत[१]नुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः ।
महते जयाय मघवन्ननघ: पुरुषस्तपस्यति तपञ्जगतीम् ॥३१॥

  शुचीति ॥ शुचिना वल्केन वल्कलेन वीताच्छादिता ततुर्यस्य सः।तिमिरच्छिदांसू- र्यादीनामन्यतम इव स्थित इत्युत्प्रेक्षा । अनघ: पुरुषः। हे मघवन्, भवतो गिराविन्द्रकीले जगतीं भुवं तपंस्तापयन्महते जयाय तपस्यति तपश्चरति । 'कर्मणो रोमन्थ-' इत्यादिना क्यङि लट् ॥ जयाय तपस्यतीत्युक्तम् । तत्र हेतुमाहुः--

स बिभर्ति भीषणभुजंगभुजः पृथु विद्विषां भयविधायि धनुः।
अमलेन तस्य धृ[२]तसच्चरिताश्चरितेन चातिशयिता मुनयः॥३२॥

  स इति ॥ भीषयेते इति भीषणौ । नन्द्यादित्वाल्युप्रत्ययः । तौ च तौ भुजंगौ च ताविव भुजौ यस्य स तथोक्तः पुरुषो विद्विषां भयविधायि पृथु धनुर्बिभर्ति । अतो जयार्थीत्यर्थः । अमलेन तस्य पुरुषस्य चरितेन धृतानि सञ्चरितानि यैस्ते मुनयोऽतिशयिता अतिक्रान्ताः॥ अथास्य तपःसिद्धिं वर्णयन्ति-मरुत इत्यादिना ॥

मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् ।
गुणसंपदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणं ॥३३॥

  मरुतो वार्ताः शिवाः सुखाः । जगती पृथ्वी नवतृणा । शयनासनाद्यनुकूलेत्यर्थः । नभो विमलं नीहारादिरहितम् । रजसि सत्यपां वृष्टिः। भवतीति शेषः । किं वहुना। अस्य पुरुपस्य गुणसंपदा भूतहितादिगुणसंपत्त्यानुगुणतामनुकूलतां गमितः । वशीकृत इत्यर्थः । भूतगणः पृथिव्यादिपञ्चकं भक्तिं सेवां कुरुत इवेत्युत्प्रेक्षा ॥

इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः॥३४॥


  1. 'वपु' इति पाठः
  2. 'भृत' इति पाठः