पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
षष्ठ:सर्गः ।


  इतरेतरेति ॥ किं च । मृगाः पशवस्तम् । अन्तेऽन्तिके सीदन्तीत्यन्तसदोऽन्तेवासिनः। 'सत्सूद्धिष-' इति क्विप् । गुरुमिवेतरेतरेषामनभिभवेनाद्रोहेणोपासते सेवन्ते । प्रचये पुष्पावचये तरवोऽस्य विनमन्ति । करप्रचेया भवन्तीत्यर्थः । अस्येति संबन्धसामान्ये षष्ठी। किं बहुना । स नग इन्द्रकीलो भवतेव तेन पुरुषेण परवान्पराधीनः सात्विकस्यापि तवेव तस्यातिशयो वर्तत इत्यर्थः ॥

उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयमेति जनः ॥३५॥

  उर्विति ॥ किं च । विपरिश्रमतायासेऽपि श्रमराहित्यमुरु महत्सत्त्वमन्तःसारमाह। दुर्बलस्य श्रमजयासंभवादिति भावः । परममुत्तमं वपुर्जयं प्रथयति च । आकारेणैव, जिष्णुत्वं गम्यत इत्यर्थः । शमिनः शान्तस्यापि तस्य नवसंगमनेऽपूर्वप्राप्तौ जनो विभुतायाः प्रभावस्यानुषङ्गि व्यापकम् । न तु हिंस्रकत्वानुषङ्गीति भावः । भयमेति । शान्तोद्भवं प्रभावं गमयतीति भावः ॥   अथेदृशोऽसौ क इति चेत्तन्न विद्म इत्याहु:----

ऋषिवंशजःस यदि दैत्यकुले यदि वान्वये महति भू [१] मिभृताम् ।
चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् ॥३६॥

  ऋषीति ॥ स पुरुषः । ऋषिवंशजो वेति शेषः। काकुर्वा । यदि वा दैत्यकुले । जात इति शेषः। यदि वा महति भूमिभृतामन्वये जातः। तव वनेषु तपश्चरतोऽस्य गतिं स्वरूपं निरूपयितुं वयम् । सहन्त इति सहाः । पचाद्यच् । न सहाः । स्म इति शेषः ।   अपृष्टपरिभाषणापराधं परिहरन्ति--

विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया ।
असदप्यदः सहितुमर्हसि नःक्व वनेचराः क्व निपुणा मतयः ॥३७॥

  विगणय्येति ॥ अनेकगुणं वहुफलम् । इन्द्रत्वाद्यनेकफलसाधकत्वेन योग्यमित्यर्थः। कारणं तपोरूपं विगणय्य विचार्य । अथवा निजया नैसर्गिक्याल्पतया बालिश्येनाज्ञानत्वेन वा कथितं नोऽस्माकमद इदम् । वचनमित्यर्थः । असदसाध्वपि सहितुं सोढुम् । 'तीषसह-" इत्यादिना विकल्पादिडागमः । अर्हसि योग्योऽसि । तर्हि सदेव किं नोक्तम् तत्राहुः । वनेचराः क्व, निपुणा मतयो विवेकबुद्धयः क्व । नोभयं संगच्छत इत्यर्थः । अज्ञानं नापराध्यतीति भावः । अर्थान्तरन्यासोऽलंकारः ॥

[२]धिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥३८॥


  1. 'भूमिभुजाम्' इति पाठ:
  2. 'उपलभ्य' इति पाठः.