पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
किरातार्जुनीये


मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः।
सहजेतरौ जयशमौ दधती बिभरांबभूव युगपन्महसी ॥२२॥

  मनसेति ॥ प्रयतोऽहिंसादिनिरतो मनसा ध्यानेन जपैर्विशिष्टमन्त्राभ्यासै: प्रणति- मिर्नमस्कारैः । एवं मनोवाक्कायकर्मभिर्दिवोऽधिपतिमिन्द्रं समुपेयिवानुपसेदिवान्सोऽर्जुनः सहजेतरौ नैसर्गिकागन्तुको । जीयतेऽनेनेति जयो वीररसः । 'एरच्' इत्यच् । शम्यतेऽनेनेति शमः। जयशमौ वीरशान्तिरसौ दधती पुष्णती महसी तेजसी युगपद्धि- भरांबभूव बभार । 'भीह्रीभृहुवाम्-' इति विकल्पादाम्प्रत्ययः । अत्र युगपद्वीरशान्ता- धिकरणत्वाभिधानादस्य लोकाद्भुतमहिमत्वं व्यज्यते ॥

शिरसा हरिन्मणिनिभः स वहन्कृतज[१]न्मनोऽभिषवणेन जटाः।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥२३॥

  शिरसेति ॥ हरिन्मणिनिभो मरकतमणिश्यामोऽभिषवणेन स्नानेन कृतजन्मनो जनिताः। अतः पिशङ्गीरिति भावः। जटाः शिरसा वहन्सोऽर्जुनोऽरुणस्यानूरोर्दीधितिभिः परिमृष्टमूर्धनि व्याप्तशिरसि तमालतरावुपमां तमालतरोः सादृश्यं ययावित्यार्थीयमुपमा । तरोरौपम्याधिकरणत्वात्तदपेक्षया सप्तमी ॥

धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मु[२]नीनधरयञ्शु [३]चिभिः।
रजयांचकार विरजाः स मृगान्कमिवेशते रमयितुंन गुणाः ॥२४॥

  धृतेति ॥धृतहेतिर्धृतायुधोऽप्यधृता जिह्मा मतिः कुटिलमतिर्येन सः।शुचिभिश्चरि- तैर्मुनीनधरयंस्तिरस्कुर्वन् । वेषेणैव भीषणो न तु कर्मणेति भावः। कुतः। विरजा रजो- गुणरहितः सोऽर्जुनो मृगान् रजयांचकार रमयामास । 'रञ्जेर्णौ मृगरमणे नलोपो वतव्यः' इति नलोपः । तथाहि । गुणा दयादयः कमिव । रमयितुं नेशते । कं वा वशीकर्तुं न शक्नुवन्तीति भावः। शुद्धिरेव हि परं विश्वासबीजं परस्य, न वेपो नापि संस्तव इति भावः ॥ अथास्य त्रिभिस्तपःसिद्धिमाह-~-अनुकूलेत्यादिना ॥

[४]नुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥२५॥

  अनुकूलपातिनं न तु प्रतिकूलपातिनमचण्डगतिं मन्दगामिनं सुगन्धिम् । गन्धस्येत्वे तदेकान्तग्रहणेऽपि कवीनां निरङ्कुशत्वात्समासान्तः । अथवा केचिदागन्तुकत्वेऽप्येकवचनेन समासान्तमिच्छन्ति । पवनमभितः किरता। प्रवर्तयतेत्यर्थः । ऋतुरस्य


  1. 'जन्मनस्त्र्यभिषवेण' इति पाठः
  2. 'गुरून्' इति पाठः
  3. 'गुरुभिः' इति पाठः
  4. 'अनुलोम'इति पाठ: