अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः । |
अनुसान्विति ॥ अनुसानु प्रतिसानु । वीप्सार्थेऽव्ययीभावः ॥ पुष्पिताः संजातपुष्पा लताविततयो यस्सिन्सः। फलिता उरवो भूरुहा येषु तानि विविक्तानि विजनानि पूतानि वा वनानि यस्सिन्स तथोक्तः। 'विविक्तौ पूतविजनौ' इत्यमरः । अचल इन्द्रकीलो हरेस्तनयस्यार्जुनस्य तपसे तपश्चर्यार्थमधिवस्तुमधिष्ठातुम् । तनिक्रियापेक्षया समानकर्तृकत्वात्तुमुन् । अचलां धृतिमुत्साहमाततान । अत्राचलविशेषणपदार्थस्य धृतिकरणहेतुत्वात्काव्यलिङ्गमलंकारः ।।
प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनर्मुनिताम् । |
प्रणिधायेति ॥ अथ तत्रादौ विधिना योगशास्त्रानुसारेण धियं चित्तवृत्तिं प्रणिधाय ध्येयविषये धियं नियम्य । 'नेर्गद--' इत्यादिना णत्वम् । मुनितां दधतः । तपस्यत इत्यर्थः । पुरातनमुनेः । अर्जुनस्येत्यर्थः । असुकरं दुष्करं तपः श्रमं खेदं नादधौ न चकार । तथाहि । आत्मवतां मनस्विनामवसादकरमशान्तिजनकं किमिव । न किंचिदित्यर्थः । इवशब्दो वाक्यालंकारे ॥
शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः। |
शमयन्निति ॥ धृतमिन्द्रियशमो विषयव्यावृत्तिरेवैकं मुख्यं सुखं येन स तथोक्तः । आत्माराम इत्यर्थः। अन्यत्र धृत इन्द्रियाणां शमः संतापनिवर्तनमेकमद्वितीयं सुखमाह्लादश्च येन स तथोक्तः । शुचिभिर्निर्मलैर्गुणैर्मैत्र्यादिभिः । अन्यत्र कान्त्यादिभिः । अधमयं पापरूपं तमोऽज्ञानम् । अन्यत्रान्धकारं च । शमयन्निवर्तयन् । विमलोऽमलिनः पापरहितः। शुभ्रोऽन्यत्र । सोऽर्जुनः प्रतिवासरं सुकृतिभिः सुकृतैः । तपोभिरित्यर्थः । स्त्रियां कीन् । कलाभिः शीतरुचिश्चन्द्र इव । ववृधे ॥
अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः। |
अधरीचंकारेति ॥ किं चेति चार्थः । विवेकस्तत्त्वावधारणं स एव गुणस्तस्मात् । तेन हेतुनेत्यर्थः । 'विभाषा गुणेऽस्त्रियाम्' इति पञ्चमी । अगुणेषु कामक्रोधादिदोषेषु विषये। तद्विरोधेन नञ्समासः । धियं चित्तवृत्तिमस्तवतो निवारितवतस्तस्यार्जुनस्य निरुपप्लवो निर्बाधः शमसुखानुभवःशान्त्यानन्दानुभवः प्रतिघातिनीं सोपप्लवां विषयसङ्गरतिं शब्दाद्युपभोगरुचिमधरीचकार । विषयनिःस्पृहं चकारेत्यर्थः । उत्कृष्टसुखलाभस्य प्रकृष्ट- वैराग्यहेतुत्वादिति भावः ॥