शाखयोः' इति विश्वः । स्मरदायिनः कामोद्दीपकस्य दशनांशुभृतो दन्तकान्तिकलितस्य
दयिताधरस्य । 'अधीगर्थ--' इत्यादिना षष्टी । भृशं स्मरयति स्म । 'लट् स्से'
इति भूतार्थे लट् । 'मितां ह्रस्वः' इति ह्रस्वः । स्मरणालंकारः ॥
उपलभ्य चञ्चलतरङ्गधृ[१]तं मदगन्धमुत्थितवतां पयसः। |
उपलभ्येति ॥ सोऽर्जुनश्चञ्चलतरङ्गैर्धृतम् । तत्संक्रान्तमित्यर्थः । मदगन्धमुपलभ्याघ्राय पयस उत्थितवताम् । रोषादिति शेष: । कर्याकाराणां यादसाम् । शाकपार्थिवादिषु द्रष्टव्यः । प्रतिदन्तिनामिवाभिमुखान् । अभियातानित्यर्थः । करिणो गजान्संवुबुधे । ददर्शेत्यर्थः ॥
सजगाम विस्मयमुदीक्ष्य पुरःसहसा समुत्पिपतिषोःफणिनः। |
स इति ॥ सोऽर्जुनः पुरोऽग्रे सहसा समुत्पिपतिपो: समुत्पतितुमिच्छोः । पतेः सन्नन्तादुप्रत्ययः । 'तनिपतिदरिद्रातिभ्यः सन् इड्वा वक्तव्यः' इति विकल्पादिडागमः। फणिनः सर्पस्य प्रजविभिरतिवेगवद्भिः श्वसितैः फूत्कारैर्दिव्याकाशे प्रहितं प्रेरितं शरदभ्रस्य विभ्रम इव विभ्रमः सौन्दर्यं यस्य तत् । शुभ्रमभ्रव्यापकं चेत्यर्थः । अपां पटलं पुर उदीक्ष्य विस्मयं जगाम । अत्रोपमानुप्राणिता स्वभावोक्तिरलंकारः ।।
स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः। |
स इति ॥ सोऽर्जुनः सैकतवतीः पुलिनवतीरभितः शफरीणां मत्सीनां परिस्फुरितान्येव चारवो दृशो यासां ताः । सुरनिम्नगां गङ्गामुपयतीर्भजन्तीः। इणः शतुरुगितत्वान्डीप् । अतएव बृहज्जघना ललिताः सखीरिव स्थिताः सरितस्ततारातिचक्रमे ॥
अधिरुह्य पु[२]ष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । |
अधिरुह्येति ॥ सोऽर्जुनोऽधिरुह्य । अर्थाद्गिरिमिति शेषः । पुष्पभरेण नम्रशिखैर्नता- ग्रैस्तरुभिः परितः परिष्कृततलां भूषितस्वरूपाम् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः। 'संपर्युपेभ्यः करोतौ भूषणे' इति सुडागमः। शुचिं शुद्धाम् । अतएव मनसः प्रसत्तिमिव मूर्तं मनःप्रसादमिव स्थिताम् ।तद्धेतौ तद्भावोत्प्रेक्षा। गिरेर्मूर्ध्नि वनान्तभुव- माससाद । अन्तःशब्दः स्वरूपवचनः । 'अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती॥