पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
 

॥अथ एकत्रिंशोध्यायः॥

विमानलक्षणम्

अथ विमानलक्षणम् । हस्तशत-पण्णवतेिः नवतिः चतुरशीतिः अशीति, पञ्चसप्ततिः चतुष्षष्टिः षष्टिः षट्पञ्चाशदित्युच्छाया विमानाना क्रमेण नवधा भवन्ति । द्वात्रिंशत्पञ्चविंशोत्सेधं 1 वा द्वादशैकादश दश नवाष्ट सप्ताश वा

विमानपठङ्गानि, तल्लक्षणम्

अधिष्ठानपादप्रस्तरग्रीवाशिखरस्थूप्याहाः षड्भागा भवन्ति । अत्र पाद शिखरौ द्वयंशौ एकांशाः शेषः । तत्र ललाटास्योरोनाभिजानुसमोत्सेधानि पञ्चाधिष्ठानानि । ततिधा कृत्वा एकांशे जगतीं द्वितीये कुमुदं तृतीयं चतुर्धा विभज्य द्वयंशे पट्टिका परितो 2यंशं प्रतिमुखमेव प्रतिक्रमं सार्धकांशे पट्टिका सार्धकांशे 3कण्ठकंशेषं वाजिनं पादबन्धमितेि पादविस्तार 4तदर्धाच्छायं वा मानमादाय विभागावगाढमृजुमच्छिद्र घनेष्टकाभिः कल्पयेत् ।

स्तम्भलक्षणम्

स्तम्भाः पडूढस्तायामाद्वादशाङ्गुल विष्कम्भाः 5 स्तम्भदशाशोनदीघर्या :6 उपरिष्टातालप्रकल्पितद्वयङ्गुलान्यूनविष्कम्भा7दशांशोनायामाः कृतचतुरश्राष्टाश्र 8षोडशाश्वपिण्डिकाकृम्भबोधिकावीरकाण्डाश्रिताश्चाष्टौ स्तम्भा भवन्ति । जालेष्ट कापादैः 9भित्तयः 10 त्रिविधा भवन्ति ।

स्तम्भविस्ताराण्युतराणि खण्डोत्तरपत्रबन्धरूपोत्तराणि त्रीणि । स्तम्भाः त्रिभागबहुलाः समनिष्कासाश्च । उत्तरस्तम्भविष्कम्भोत्सेधश्चतुर्धा भूतबहुल 11भागतल्यविस्तारसमोत्सेधा भवन्ति । तदधत्सेधा 12चतुर्मार्गगाः दण्डोत्सेधा


1. च. पञ्चविंशोत्सेधाद्द्वादशाङ्गुलदशाशनवसप्ताश वा. 2 च. पंशमास्यं 3. क. खण्डकल्कशेपं 4. च :. उच्द्रायमाहोपर्णकिन. 5. च. विष्कम्भास्त्वधस्तम्भ, 6. च. दीर्घतपरिष्टानं. 7. क. ग. दशांशेनायामाः 8. च. ष प्रमस्याष्टाश्रपूर्वाभ्रभु जुपिंण्डका इत्यादि. 3. च. भक्तयः 10. च. त्रिधा. 11. च. भारलात. 12 . B. चतुर्भागः:.