पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

1याम्ये समं वारुण्यां वायुवीक्षणं सौम्यं वायव्यामधङ्गुलमेवं कृते समं भवति । प्रागग्रपतनार्धपूतरेऽपि (?) वर्धयेत् । उदगयने समाग्रमर्धादिकं ततोऽन्यस्मिन् प्राच्योदीच्यप्रबन्धने (?) प्राचीमेवं 1ज्ञात्वा चतुष्पञ्चषडशा भितिमूलाः क्रमेणोतमः मध्यमाधमाः ।2 त्रिभूमीनो चतुर्थाशं पञ्चभूमीनामष्टांश सप्तभूमीनां 3दशांशमेवं गर्भगृहं ज्ञात्वा शुभक्षं शुभहोरायां प्रथमेष्टका न्यसेत्4 । ग्रामस्य यजमानस्य आनुकूल्ये 5स्वारोहितेषु नक्षत्रेषु ध्रुवेषु च करणेषु 6शुभेक्षिते 7शशिराशिस्थे त्वारभेत । तद्दिनात् पूर्वमडुरानर्पयित्वा श्वः कर्तास्मिति सञ्चिन्त्य प्रभाते प्राच्यां दक्षिणेवा प्रपं कृत्वा उतरे पूर्ववद्रात्रौ वास्तुहोमं हुत्वा प्रपायां पञ्चाग्नीन् समुपकल्प्य सूत्रोक्तविधिना आधारान्ते वैष्णवं हुत्वा ऐन्द्रमाहवनीये अन्चाहायें आग्नेयं याम्यं नैत्रतं गार्हपत्ये वारुणं वायुदैवत्यं आवसथ्ये सौम्यमैशानं सभ्ये शान्तिं हत्वा सभयाद्दक्षिणे धान्योपरि वासांस्यास्तीर्य इष्टकाश्च शिला वा संस्थाप्य अभ्यच्र्य वस्त्रेणाच्छाद्य अग्निं परिस्तीर्य वैष्णवं श्रीभूमिदैवत्यं हुत्वा प्रभाते स्नात्वा आचार्य पूजायित्वा अलङ्कत्य स्थापकान् सम्पूज्य ग्रामं प्रदक्षिणी कृत्य द्वारस्य दक्षिणेभागे पद्मरागावजप्रबालेन्द्रनीलमरकतमौक्तिकपुष्यकान्त वैदूर्यस्फटिकादीनि भध्यादीशान्तमाक्षिप्य ‘आ त्वा हार्ष’ सूतेन प्रागाग्रं वोत्तराग्रे वा युग्मञ्च (?) देवदेवमनुस्मृत्य स्थापयेत् । एवं कृत्वा द्वारस्य दक्षिणस्तम्भे कवाटार्गलयोगे गर्भागारे वा यमवरुणसोमदक्षिणांशेषु नृपवैश्यशूद्रविप्राणां वृद्धयै स्तम्भं स्थापयेत् । अधिष्ठानसमं श्धआवगाढं कृत्वा पूर्ववत् गर्भ संस्थाप्य पभ्राच्छिल्पिभिः शिल्पशास्मविधानेनाऽरभेतेति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाले कश्यपप्रोक्ते ज्ञानकाण्डे प्रथमेष्टकाविधानं नाम त्रिंशोध्यायः ।।


भूमीनामेव. 4. ग. न्यसेदिति नास्ति. 5. क. स्वारोहितेष्विति नास्ति. 8. च. चन्द्रे शुभेक्षित