पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
एकोनत्रिंशोऽध्याय

अधमत्रिकम् । चतुष्कालार्चनायुतं मूर्तीनां पृथक् पृथक् चतुष्काल बहूपदं शदधिसर्पिर्हव्यान्नबलिचतुष्कनृतोयसमन्वित विष्णुपञ्चकदिनपूजादियुतमयनाव्द युगान्तभूतसम्प्लवादिषु मासि मासि च स्नपनबल्युत्सवविस्तीर्णमेवमुक्तम् । द्विकाल1मन्नबलिसंयुतं सायं अध्र्यपुष्पबलियुतभयनादिषु कालेषु स्नपनोत्सवसंयुतं मध्यमम् । मध्याहे प्रातः सायञ्च हव्यसंयुतं 2त्रिकालपूजनयुतं बलिहीनमहीनं3 वा कालोक्तस्नपनयुतमेतदधमम् । एतेषु स्वशक्तितो भेदागममालम्ब्य लोभमोह विवर्जितो ब्राह्मण विधानेन भगवन्तमनुस्मृत्य अन्यतमया आचर्याराधफपरिपूर्ण 4 भोगमात्मार्थमिति निश्चित्य तदर्ह मन्दिरमारभेत । कुब्जबामनातेिह्मस्वदीर्धान् विना कर्तुः गुरोर्वा हस्तेन 5नाहं तदर्धहस्तेन अष्टसप्तषडधिकदशकमानमुत्तमं त्रिकम् । पञ्चचतुस्ल्यधिकदशकमानं मध्यमं त्रिकम् । द्रोकशून्याधिकदश कमानमधमत्रिकम् । नवाष्टसप्तषड़ढस्तादहीनमेवं विमानप्रमाणमादाय स्यश क्तितः कल्पयेत् । पञ्चहस्तविहीने भगवन्तं नैव कल्पयेत् । कल्पनेऽप्यच्युतः तत्र न रमेत । तदुत्सोधादष्टभागं भूमिलब्धं शिरसि उपरेि (?) दृढस्थाने विहीनेऽपि दोषो नास्ति । एव ज्ञात्वा अधस्तात् सम दृढतरमुपकल्प्य विधिना प्रथमेष्टकान्यासं कृत्वा शिलाभिः दुमैः इष्टकाभिर्वा रम्यं 6मनोहर शुभदं विमानं शास्रजैः सत्सम्मतैः व्याधिदोषविवर्जितैः वाक्कर्मबुद्धिकुशलैः सर्वदोषविवर्जितै चारुदर्शनैः रूपयौवनसम्पत्रैः शिल्पिभिः कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे इष्टकालक्षणविधिर्नाम एकोनत्रिंशोऽध्यायः ।।

॥अथ त्रिंशोऽध्यायः॥

प्रवमेध्टकाविधानम्

अथ प्रथमेष्टकाविधानम् । विधिना कल्पिते देशे दृढतरे 7 जलेन सर्व सममिति ज्ञात्वा पूर्ववच्छढुं संस्थाप्य छायाग्रपतन दृष्ट्वा ऐशान्यामङ्गुलार्ध मुखं


1. 3, नवजाल. 2. च. एककालपूजनायुतं. 3. क. अहीनाङ्गमति. 4. ध. भोजनं 5. ग. यह. 6. क. मनोरमं. 7. B. जलेनेति नास्ति.