पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे

गर्भदोषप्रकाराः

गर्भदर्शने महत्तरो दोषो भवति । तत्र सर्पदर्शने स्वयमेव कर्ता नश्यति । भूषिके अनपत्यत्वं कृकलासे अल्पायुः गोधायामनारोग्यं शलभे दारेि खद्योते अन्धत्वं मण्डूक धनक्षयः सिकतासु व्याधिः जले शरीरपीडा गौलिकायां फुलक्षयः । एवमनेके भवन्ति । तस्मात् परीक्ष्य सगर्भा वर्जयेत् । मुखं पृष्ठं शिरः पादौ च ज्ञात्वा सिराश्च परिहृत्यलक्षणसम्पन्नमेव प्रकल्प्य आहरेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छारे कश्यपप्रोते ज्ञानकाण्डे शिलासङ्ग्रहणं नाम अष्टाविंशोऽध्यायः ।।

॥अथ एकोनत्रिंशोऽध्यायः॥

इष्टकालक्षणम्

अथेष्टकालक्षणम् । सस्यक्षेत्रे नदीतीरे वा एकभागं पुलिन्दं द्विभागं वालुका तत्समं ग्रावादिकमेवं संशोध्य काष्ठलोष्टतृणशिलादिवर्जितं लक्षणं जलेन सम्मर्च बहुदिनपर्युषितमृजु चिक्कण1मौर्जमेवं समादाय कृमिकीटमक्षिकाद्यसङ्कले समन्तात् जलविमुक्ते मनोरमे शुध्दे अवकाशे अच्छाये 2विवर्जिते यमविस्तारान् द्विगुणायामान्भोगोच्छूितान् सुदृढान् लघुतरनिर्मितान् भूमिकान् कृत्वा तैः पृथक् पृथक् विश्वामित्राद्यस्पृष्टकाः कल्पयित्वा 3आतपेनाऽशोष्य विविक्ते जनवर्जिते महाकुल्लीं प्रकल्प्य 4अग्निोद्दीप्य विमानसीम्नो बाहेो स्थापयित्वा आरभेत । एवं तरुपाषाणेष्टकाः सङ्गृह्य नवमार्गेषु 5एकमालम्ब्य यथाशक्त्यारभेत ।

आलयप्रमाणम्

अष्टशतकं पञ्चसप्ततिकमष्टाघत्वरिंशकं पूजकविप्रजनयुतं 6क्रमात् उत्तमं त्रिकम् । द्वात्रिंशत् पोडश वा मध्यमं त्रिकम् । नवकं पञ्चकं त्रिकं वा


1. च. औौच् 2. विज्र्य. ३. २. अनातषेपन , 4. क. अग्निनेति न दृश्यते. . घ. एकमाग. 6. B. उतं उत्तमं त्रिकं इत्येव. अन्यत्रोत्तममितेि नास्ति.