पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

दारूक्तवृक्षभेदाः

खदिरासन साल सुवर्णानेिलार्जुनाशोक मधूक वाक सुरवर्ति निम्ब 1दलित्थ बकुलकन्दलि वञ्जुलाश्चेत्येते सारदारवः सर्वकार्येषु ग्राह्या भवन्ति । तानेव स्थूणा फलकोतर 2बोधिका द्वारपट्टिकार्गल सालभञ्जिकाद्यर्थ संशोधिता नृजुवृक्षांस्तक्षयित्वा आहृत्योच्छिष्टफेन3तुषोषरर्धिजांवर्चः (१) प्रभृतीन्परिहृत्य4 शकटैः वैधकैरन्यैः महिपैः वृषेर्वा वाहयित्वा आधोष्य5 6देवस्थानं गत्वा तत्र निधापयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छाखे कश्थपप्रोक्ते ज्ञानकाण्डे सप्तविंशोऽध्यायः ।।

॥अथ अष्टाविंशोऽध्यायः॥

शिलासङ्गग्रहणम्, शिलाभेदाः

अथ शिलासङ्ग्रहणम् । िगरिजा भूमिजा वारिजाभ्रति शिलाः त्रिविधा भवन्ति । गिरिजानां वारिजानामूर्ध्वमुखं भूमिजानामधोमुखं गिरिपार्श्वप्रजातानां तत्प्रेक्षमुखम् । 7यत्रोन्नतिस्तत्र शिरो विद्यात् । नदीजानां जलमार्गमुखम् । प्राङ्मुखी जयदा दक्षिणशिराः शान्तिदा पश्चिमशिराः श्रीकरा उत्तरशिराः शुभदा । विदेिक्छिरसं विदिङ्मुखीं वर्जयेत् । भूमिजा गरीयसी मध्यमा गिरिजा कनीयसी वारिजा । विशाल बहुला स्निग्धामविवरां ग्रन्थिवर्जितां व्यक्तशब्दघनां पुमांसं शरावोदकसङ्गशां वधू 8कर्कशां नपुंसकमिति । देवानां पुंशिला देवीनां स्त्रीशिला ग्राह्या । न ग्राह्यानपुंसकशिला ।


1. ग. कपित्य. 2. बोधिकोमरकलालार्गलसालेत्यादि कादन्यत्र. 3. B. वृद्धवृक्षान्. 4. तुषा रर्थिवर्च. 5. क . शास्सास्समादाय शकटैपैरित्यादि. 8. च, देवेशं. 7. क. यतो हतिः ३. च. इत्यधिकं.