पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
षड्विंशोऽध्यायः

केचित् । तस्मात् तदूरुबाहुहृदयप्रदेशेषु गर्भालयं अन्यत्र सन्धिस्थानानि सर्वाणि अन्यदेवा 1 धिष्ठितदेशं कुर्यात् । सन्धिस्थानानि सर्वाणि गृहंप्रति वर्जयेत् । मेङ्गनाभिसन्धीन्परिहृत्योध्र्वोदरे प्रासादं कारयेत् । कूर्परजङ्घाहस्तनखकर्णाक्षिमर्माणि सर्वाणि परिहृत्य यज्ञे प्रधानाग्निं स्थापयेत् । एवं ज्ञात्वोद्दिश्य 2सर्वसमं चतुरश्रमाहरत् । अध्यर्धायामं भौतिकं 3दीर्धायामं राक्षसं किञ्चिद्दार्घ पैशाचमिति । अतः सर्वसमं चतुरश्र मण्डलं वा दण्डेन समुपकल्प्य खानयेत् ।

तत्र निमित्तपरीक्षणम्

खननात्पूर्वं 4 भामिनीं कर्तारं वाऽन्यं तदैशान्यां स्थितं “वदस्वे” त्युकत्वा तदुतेनाक्षरेणोपलक्षयेत् । तत्र अकचटतपयशव: रक्तकृष्णश्चेत5नील पीतश्यामासितकपिलवर्णाः लोहाङ्गारभसितेष्टकाद्दुमसञ्चयोपल6कपालरत्नानि तत्रेति ज्ञात्वा स्पृष्टाङ्गैरपि लक्षयेत् । शिराकण्डूयने पुरुषार्धप्रमाणेऽस्थिशल्यं मुखे हस्तद्वये दारुशल्यं ग्रीवायां हस्तत्रये 7कालशृङ्खलमूर्वोर्हस्तद्वये साधे8 हस्तयोर्जानुमात्रातू 9खट्वापादं बाहोर्हस्तत्रये शलको दक्षिणहस्ते वितस्तिमात्रे हस्त्यवयव 10कर्णिकार्धादधः पादे अष्टाङ्गुले चर्मजमङ्गुष्ठे खेटकावयवं 11 सीसं गैरिकं लोहपात्रं कनिष्ठिकायामष्टाङ्गुले 12कांस्यूमन्येषु हिङ्गुलिकमिति । 13यदङ्गं स्पष्टं तस्याङ्गे वास्तुपुरुषस्य सशल्यम् (?) । 14वेधून सूचन वीक्षणाद्यसकृद्यत्र तत्रास्थिशल्यमिति ज्ञात्वा जलदर्शनात् तत्सर्व खानयेत ।

अशुभनिमित्तानि

खननकाले कृमिकीटपतङ्गसकुले सर्पमूषिकवृश्चिकादिदर्शने कनकाङ्ग पतने 15 भ्रमणे खनभेदे त्सरुभङ्गे चाद्भुतदर्शने भयाऽतङ्कमरणादयो भवन्ति ।


1. B. अधिष्ठितं 2. ग. सर्वमय चात्युमं. 3. ज. द्विती । यामं 4.4. भामिनीमिति न दृश्यते. 5. A. नीलचित्रश्याम. ६. B. कपालरत्नसुवर्णानि. 7. B. कालं. 8. झ. पश्धरबल्ल वम्. 8. स्वादन्यत्र रूखट्वाङ्गपाद. 10. ग. कण्टकाधिः. 11. . सममिन्. क, अङ्गसंस्पर्धे. च असंमिश्रे. 12 A अन्येष्वङ्गुलिकमिति. ल. षटंगुलिकमिति 13. च. यदङ्गस्पृष्टस्याङ्गे. 14A. . विज्ञान, च. विसूचन. 15. क. भामणेषु तत्सरुभेटे