पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
द्वाविंशोऽध्यायः

सम्पूर्य कुम्भं ' वरुणं पाशभृतं वीरमुदकप 'मित्यभ्यच्र्य पुण्याहं वाचर्थित्वा पुनः प्रभाते यज्ञवाटं प्रविश्य वैखानससूत्रोक्तविधिना भूमियजं हुत्वा पूर्वोक्त देवता हुत्वा वास्तुपुरुषमभ्यच्र्य अग्रतो भामिनीं कृत्वा 1'इमा सिञ्चामी' ति जलमाम्राव्य अनुमृज्य 'त्चां खना ' मीतेि खनित्वा ' पासून् प्रष्यामी 'त्युक्त्वा सर्व तल्लक्षणं ज्ञात्वा ' यस्सखे ' ति विष्वक्सेनं सन्नम्य ' त्वं सर्वमि 'त्यनुमान्य ' सुक्रमा ' इति कुम्भमभिमन्क्रय ' पातु मां वरुण ' इति शेवधिं पूरयित्वा ' आयातु भगवान ब्रहो ' त्येकं कुशेशयं क्षिप्त्वा ' इदं ब्रह्मणा पूर्ण ' मिति शुभाशुभं ज्ञात्वा आरभत ।

निमित्तपरीक्षणम्

क्षिप्तेऽब्जे वामावर्ते याम्यगे कुटिले स्फुटिते स्तब्धे विदिग्गते वा अधरोत्तरे चाधोमुखे च आस्थापिते तोये, पांसुच्छन्ने सबुद्बुदे फेने क्षिप्रनाशे सशब्दे चानथान्तरं कर्मकर्तुः 2 मृत्युर्भवति । तस्मिन्नहनि विद्युत् स्तनितोल्का निपात ब्रह्मदण्ड ध्वज धूमकेतु प्रतिसूर्येन्द्रचापादिदर्शने कुम्भभङ्गे प्रतिमादि विरूपणे च महदनर्थसूचकं भवति । अत्र शोभनं, तत्काले दिगतः सौम्यो, विदिग्गातः पापकृदैशान्यको नीलगः शुभदो भ्रामकश्चण्डकवण्डो भवति । तत्कालस्थापितो दिर्घदीपश्चञ्चलो वामावत विदिशिखः सधूमः सर्वदोषकृत् सौम्योऽचञ्चलश्चारुदर्शनो दीप्तोध्र्वशिखश्च आयुस्सर्वसम्पत्समृद्धिदश्च । एवं 3 पञ्चभूतगतान् शुभाशुभान् परिज्ञाय अशुभदर्शने शान्तिं हुत्वा शुभावहश्चत् समारभेतेतेि विज्ञायते ।।

इति श्रीवैखानसे भागवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे द्वाविंशोऽध्यायः ।।


1. A. इमां सीमां. 2. W. मृत्युः कर्तुर्भवतेि. 3.M. पञ्चभूतान्