पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
द्वाविंशोऽध्याय

सीमानिर्णयप्रकारः

तत्र गत्वा चक्रवीशशैषिकानेि सन्नयस्य वारुणान्तं सीमानिर्णयं कत्वा तत्र बलीवर्दावभिमृश्य देवं नमस्कृत्य आचार्यः कर्षकं “ अक्षम दीव्य " इति त्रिः प्रोक्षयेत् । कर्षक तभभिवन्द्य युगमादाय “ त्वं वृषभ ” इति दक्षिणं “ सौरभेये ” ति वामं त्रिवृतकुशरज्ज्वा बलीवर्दै संयोज्य बद्धवा “युगं युगश्रृङ्ग ” मिति लाङ्गलं रज्ज्वा आयोज्य “ ऋपिं गृह्ममी ” त्वृषिमाहृत्य “ विष्णुर्मारक्ष ” त्वित्यात्मरक्षा कृत्वा “येऽस्मिन्देश ” इत्यानम्य “हलकृष्टा " इति तामिलो प्रागन्तं कर्षयित्वा तस्मादुत्तरतो दण्डान्तरं निवत्र्य प्रतीच्यन्तमेवं क्रमेण ऋज्वविच्छिन्नपदं दक्षिणावर्त ष्टिपदं प्रागन्तमुत्तरान्तं कर्षयेत् । आचार्य तस्यानुपदं पञ्चगव्यैः प्रोक्ष्य शुभाशुभं परीक्ष्य “ गच्छध्वमार्या ” इति विसृजेत्।

तत्र निमित्तपरीक्षणम्

वामावर्ते छिन्नपदे गौसूत्रे गौरे चाशुभं रक्तकृष्णाकपोतागलवर्णे कर्तुमृत्यु भर्भवति । तुष भस्मकपालास्थि कश लोम नख कण्टकादिदर्शने महदुःखम श्धतमृतिकादर्शने स्वर्ण रजत ताम्र मुक्ता पद्मराग वज्र वैडूर्य प्रवाल स्फटिकादि दर्शने महांश्च वृद्धिः कर्तुः शुभं, इति शुभाशुभं ज्ञात्वा अरिष्टानां शान्तिं कारयेत् । एवं प्रागुतरान्तं निरन्तरं कर्पयित्वा प्राणस्थाने बलीवर्दी संस्थाप्य पादान् प्रक्षाल्य विमुच्य तण्डुलान् गुडमिश्रान् तेभ्यो दत्वा प्रदक्षिणीकृत्य “ देवस्य त्वे ” त्याभेवन्द्य विसृज्य युगहलादीन् वाहनस्थाने संस्थाप्य प्रोक्ष्य बीजानादाय “ इमे बीजा ” इत्यभिमृश्य “समुद्रवती, शृङ्गे श्रृङ्ग ” इत्युर्वीमानम्य “देवि त्वयी ” त्युप्त्वा सर्वान् प्रागन्तमुत्तरान्तं वा प्रदक्षिणं “ दुहतो दिव ” मित्याद्भिः प्रोक्ष्य रक्षां सम्यग्विधाय अत्चरो गृहं गत्वा सम्पूज्य हिरण्यपशुभूम्यादीनाचार्याय दक्षिणां दद्यात् ।

ब्रह्मपद्मविधिः

एवं कृत्वा कार्तिक्या मार्गशीर्षे मासे ब्रह्मपद्मविधिं कारयेत् । तत्पूर्व चतुर्थेऽहन्यपराहे अमितं पूर्ववत् सम्पूज्य दक्षिणे अनपायेिवैनतेयो सम्पूज्य