पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
एकविंशोऽध्यायः

नगरादिषु पश्चिमे प्राङ्मुखं विमानं सडकल्प्य अप्सरोभिः प्रकल्पयेत् , विविक्त ग्रामपुण्यदेशेषु ताभिस्सार्ध न कारयेत् ।

सामृत हारक कल्पनम्

पूर्वमेव सुपर्याप्तं भोगं कृत्वा बालागारे भगवन्तं प्रतिष्ठाप्यारम्भणं यत्तत् सामृतम् । बालागारं विना विमानमात्रमेव स्वार्थे. याच्ञालब्द्यार्थश्च कृत्वा बेरादीन् प्रकल्पयेत् तद्धारकमित्येतयोरेकमालम्याऽरभेत । राज्ञां राजसमानां द्विजानाममात्यानां सामृतमेव नान्यथा कार्यम् । यदि कुर्यात् कर्तुः मृत्युर्भवति । अशक्तानां दरिद्राणां भक्तिमात्रसाधनानां हारकम् । तस्मात् पूर्वमेवोपकल्प्य भूमिशुद्धिकर्षणानन्तरं बालागारं प्रकल्प्य खनित्वा आपूर्यारभेतेति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे धारादानविधिनम एकविंशोऽध्यायः ।।

॥अथ द्वाविंशोऽधयायः॥

कर्षणम्

अथ तद्देशशुद्दिकर्षणलक्षणं व्याख्यास्यामः । कर्षणार्थ युगलाङ्गलादीन् क्रमेणाहरेत् । खदिरासनचम्बकशिरीषभवाः लाङ्गलाः क्रमेण वर्णानाम् । वेणुचम्पक्पुन्नागबर्बरजा युगाश्च ।

युगलाङ्गलादिलक्षणम्

शुभे वृक्षमाराध्य भूतबलिमुपकल्प सायं 1” येऽस्मिन् वृक्षे स्थिता यूयं शेषादीन् प्रणमाम्यहं ” प्रदक्षिणं कृत्वा प्रभाते सौम्यहोराया इत्यकवा छेदयित्वा 2 पञ्चतालायामं हलं द्वादशतालायतं क्षिणियं नवतालायतं युगं चतुस्तालायाममृषिमाहृत्य सुवर्णरजतताम्रायसानामन्यतमेन ऋत्विगङ्गुलायामं


1. A. अस्मिन् वृक्षे स्थिता यूयं. 2. M पञ्चयमायाम हलं द्वादशायतं क्षिणियं चतुर्यमाथाममृषेितमाहत्य