पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
श्रीवैखानसे भगवच्छाले काश्यपीये ज्ञानकाण्डे

भगवदाखयस्वाम्यकथनम्

अशक्तोन्नत् स्वयं समापयितु राज्ञा आढयग्रभमुख्यैः सर्ववर्णेिभिः अनुलोमैश्च कारयेत् । तस्मात् पुण्ये शुभःऽनुकूले 1 तद्विभवानुरूपमाराधकान् परिचारकान् सङ्गृह्य यथालाभं पायसादिभिभजयित्वा शक्तितो दक्षिणां दत्वा आरभत । शूद्रं वा अनुलोमं वा 2 विष्णुभक्तियुतं समाहूय ग्रामनगरफ्तनादिषु सरित्समुद्रतीरे पर्वतपार्श्व 3 ग्राममध्ये वा परीक्ष्य विधिना भूमेिं, शुचौ देशे कारयेद्विमानम्।

भूमिशोधनप्रकारः

तत्र द्वमगुल्मलतादीनपोह्य बहुशः कर्षणं कृत्वा शोधयेत् । गोभिरा क्रमणात् दाहनात् खननात् पूरणात् वर्षधाराभिः भूमेः शौचमित्येवं यथालाभं क्रमेण कारयेत् ।

वृतिकल्पनप्रकारः

तत्र बहुशः तूष्णीं कर्षयित्वा बीजानुप्त्वा 4 पुरतस्तच्क्रममार्गेण भोगैश्वर्यवशादर्चनस्नपनोत्सवबल्यर्थमेतावत् हविषामर्थमेतावत् पुष्पगन्धानुले पनदीपार्थ मेतावत् विष्णुपञ्चदिनपूजार्थमर्चनादक्षिणार्थमेतावत्। शुश्रूषाकारिणा मेतावत् वादित्रजीविनां भक्तानामतिथीनामेतावत् 5 शिष्याणामध्येणामेतावत् अप्सरसां गायकनर्तकवादकानां विपञ्चीरववादनां मर्दलकानामेतावत् खण्डस्फुटेि तनिवृत्त्यर्थं नवकर्मक्रिया प्रत्युपकारिणां दानार्थमेतावदिति निश्चित्य, तत् सर्वं पूर्वकताम्रपात्रे अििक्त्वा सीमाविनिर्णयंकृत्चा आचार्यमर्चकंवा वस्रङ्गुलीयकुण्डलादिभिः अलङ्कत्य तद्धस्ते 6 सोदकं ददयात् । एतत्सर्वेषामेव भवति । एवं कर्तुम शक्तश्चत् विमानदेशमात्रं दद्यात् । पश्चात् सर्वसमृद्धिरपि7 तस्यैव भवेत् ।


१. . तद्विभवानुकूलमर्चकपरिचारकानाहूयाभिपुज्य 2. . विष्णुभक्तः शूद्रोऽनुलोमी बा यजमानवत् गुरुस्तं समाहूय प्रोक्य वैष्णवं कारायित्वा, . . राष्ट्रमध्ये, 4. . ततः 5 A. ग्रन्थव्यास्पातृणामेतावन्नणिकानामेतावत्; , 6.A. सम्पूर्णकलशधारया. 7. ध. कोशे इतः आरभ्यं पञ्चविंशतिपत्राणि गालतानि .