पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
विंशोऽध्यायः

स गच्छति । किं पुनर्मन्दिरं कृत्वा ! शाश्वतपूजाकर्तृणाम् पुण्या भक्तिः । तस्मादेवं विदित्वा लोकक्षयोद्भवपुण्यपापफलाधारसस्वदुस्रप्रवर्तनपत्न्यपत्यधना दीनामसारतां परेिज्ञाय हेकामुष्मिकविज्ञानहेतुकमनश्चरमप्रभेदयमनाि मध्यान्तमार्ष शाब्दं प्रमाणमालम्ब्य तत्सारभूतं सर्वार्थसाधकं भुक्तिमुक्तिफलप्रदम प्रतक्र्यमनवदयमघौघघ्नं वैखानसमिदं शास्रमिति ज्ञात्वा अन्योन्यापाकृतिहेतु दूषितानुमितानयथार्थानल्पश्रुतिविम्भितानदृष्टानदृष्टघ्नानप्यविचारपेशलास्त कनपोह्य श्रद्धाभक्ती पुरस्कृत्य वैखानसशास्रसिद्धं यथाशक्त्यारभेतेति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छासे कश्यपप्रोते ज्ञानकाण्डे विमानार्चनाप्रशंसनं नाम वेिंशोऽध्याय

॥अथ एकविंशोऽध्यायः॥

एवं मनसि सञ्जाते विष्णोर्विमानं चिकीर्युः आरुरुक्षुः पद विष्णो वैखानसविदः शिष्टान् वेदतत्वार्थदर्शिनः सौम्यान् जितेन्द्रियान् शुद्धान् विष्ण्वाकारधरान् आत्मारामान् ज्ञानामृतानन्दिहृदयान् ऊहापोहविधानेन ध्वस्त संशयमानसान् ध्यानयुक्तान् ब्रह्मरत्नमयान् विप्रान् राष्ट्रक्षेमहिनान् देववन्न मस्कृत्यानुज्ञाप्याऽहूय “यूयं भक्तया हरेर्विमानं कर्तमारभध्वं, युष्मदङ्घ्ररयोरक्षितोऽहं 1 मत्प्रेरितां पूजामाहृत्यानुमान्यास्मिन् कर्मणि2पुण्यधैिं भावयत ” इत्युक्त्वा तैः 'ओ 'मित्युते तेष्वकं गुरु3कृत्वा पूजयित्वा4तपा सर्वपो शक्तितो दक्षिणो दत्वा विप्रानन्यांश्च सम्भोज्य स्वार्थ त्रिभागं कत्वा एक कुटुम्बभरणार्थमाहृत्य द्विभागं दत्वा तेनैव 5 विधानेन विमानमुपकल्प्य तस्य दक्षिणपार्श्व आचार्यसदनं परिकल्पयेत् । गुरुर्विष्णुपरायणः सद्मन्यावसेत् ।


1. B. रज उक्षित, 2. A. पुण्यदातारो भावयत ३. ४. आहृत्य भोजयित्वा, 4. B. तेषां सर्वेषामित्यत्र वृतान्सर्वानिति, 5. B. विधानेनेति लुप्यते.