पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

भक्तिमहिमा

भक्तिरेव परा पुण्या भक्तिरेव शुभप्रदा । तृष्णावैतरणीयानं संवर्तकाति वृष्टिरक्षा, कामहालाहलाग्घमृतधारा, सङ्कल्पबीजहरा, देहबन्धमोक्षप्रदायिनी, सङ्कल्पकण्टकाविद्धविशल्यकरणी , योगध्र्यङ्करवर्धना, अस्मिक्रकचच्छेदरोप सञ्जीवनी, दुखत्रयजालभेदिनी, सुखचिन्तामणिप्रदा स्मर्तृणां भक्तिः । एवं परिज्ञाय अनित्यसुखमस्वस्थं जलबुद्बुदवन्निस्सारं रोगदुःखाकरं पूत्यमेध्यविनिर्मितं आशापाशशतैर्बद्धं तृष्णांशुसमुज्ज्वलं एतद्देहं क्षणात् हित्वा सर्वसिद्धिफलप्रद सर्वदेवैरभिष्टुत सर्वयोगिभिरर्चितं सर्ववेदार्थवेद्य परात् परतरं पुण्यं वैष्णवं पदं प्राप्नुयादिति सञ्चिन्त्य विधिद्वष्टविधानेन शक्तितः कर्तुमारभत ।

अर्चनाफलश्रुतिः

सङ्कल्पमात्रादेव दशपूर्वान् दशापरान् आत्मानञ्च नयेल्लोकान् शुभान् । देवनिर्मितं देशे परीक्ष्य तान् लोकान् स जयिष्यति । अतः कर्पिते क्षेत्रे ब्रह्मलोकं, ब्रह्मपद्मे कृते विष्णुलोकं स्थापिते शैषिके विष्णोः सामीप्यं, देवविभ्बे कृते तत्र भृग्वविसदृशं पदं, मन्दिरे कल्पितेऽपि सालोक्यं वंशजा यान्ति । तत्रैव विमाने समाप्ते सामीप्यं, देवरूपे कृते बेरे तद्वंशजाताः सारूप्यं, बिम्बे प्रतिष्टिते सम्यग्विधिना तद्वंशजातानां पत्नीनां कुलजाः मातृवंशजाः भृत्यवंशभवाश्च विष्णुरूपधराः सौम्यास्सर्वे भवन्ति । समाप्ते वैष्णवयागे भोगैश्वर्य, प्रतिष्ठिते त्यवत्वा कलेबरं सदयः शङ्कखचक्रधर श्यामलाङ्गश्चतुर्भुजः श्रीवत्सवक्षाः भूत्वा वैनतेयभुजमारूढः सर्वदेवनमस्कृतः सर्वान् लोकानतीत्यासौ विष्णोः सायुज्य माप्नुयात् । अन्यलोकगताः सर्वे पुनरावर्तिनः, विष्णुलोकागतानां नास्त्यावृत्तिः । विमानमहारकौतकबिम्बस्थापननवकर्मकर्तारः पञ्चैते विष्णुरूपधरा विष्णुलोके प्रतिष्ठिताः । तेषां चाप्यधिकपुण्यवान् भोगदाता भवति । स्थण्डिले वा जले 1 वाऽप्याशये वा ध्यात्वा देवं 2 नमस्कृत्योक्तमार्गेण सर्वपापविनिर्मुक्तो विष्णुलोकं


1.. वायव्य शये. 2. W. नम इत्युक्तिमात्रेण.