पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
एकोनविंशोऽध्याय

भगवदाराधनपरशंसा

तस्मात् सर्वप्रयत्नेन देविभ्यांसार्ध विष्णु भगवन्तं सुवर्णरजिताम्राणा मन्यतमेन पडङ्गुलादहीनमुपकल्प्य यथाविभवमाराध्य तत्प्रमुखेऽग्निं विधानेन । अन्यथा आत्मघाती भवति । वित्णुपूजाविहीनं यद्वेश्म 2तत्पक्कणैः समम् । तद्विप्रमुख्यैर्न प्रवेश्यम् । तदधिपेन नाऽसितव्यं न सम्भाष्यम् । तस्माद्देवं प्रतिष्ठाप्याराधयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छासत्रे कश्यपप्रोते ज्ञानकाण्डे चतुर्वर्णसमाराधनयोग्यदेवतानिर्णयो नाम एकोनविंशोऽध्यायः ।।


॥अथ विंशोऽध्यायः ॥

विमानार्चनाविधिः

अथ विमानार्चनविधानं व्याख्यास्यामः । विमानमित्यत्र विष्णोः । सा विमानार्चना पुण्या सर्वक्रतुफलप्रदा सार्वजनीना चिरस्थायिनी । विष्णुपूजा विना वेदाः शास्राण्याचारसम्पदः शुभदा न भवन्ति, यथा आदित्यं 3 विना लोका न मनोहिताः, यथेन्द्रियाण्यकर्मण्यतां यान्ति ।

अर्चनामहिमा

अतः सर्वप्रयत्नेनेन्दिरेशस्य मन्दिरं सुन्दरं कृत्वा भगवन्तं प्रतिष्ठाप्य परात्परं तल्लोकमवाप्नुयाद्वैष्णवं पदम् । ' तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय ' इति । विष्णोर्मन्दिरमित्युक्त्वा बालकैर्वालुकाकल्पितमप्यघौघनाशकृत् । किं पुनर्वेिधिनेष्टकादिकृतम् ? । तपोभिः कर्मभिः पुण्यैर्वा अन्यै नाप्नुयाद्वैष्णवं पदम, भक्त्यैव नेिनयेत नान्यैः ।


१. B. आमयावी. 2. क. तत्पितृवनैः पक्कणैः 3. म. लोकमितो हीनानि यथेन्द्रियाणि .