पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

।। अथ एकोनविंशोऽध्यायः ।।

वैश्यशूदयो : गृहविधानम

वैश्याना क्रयविक्रयागारं प्रत्यङ्मुखे दक्षिणे भोजनस्थानं बाहो दक्षिणे गोधनस्थानं तत्पश्चिमे महिषाणाम् । अन्यद्विप्रसमम् । शूद्राणां प्रमुखे कृद्रिय परिग्रहमैशान्यामतिथिस्थानम्। अन्यग्वैश्यसमम्।

सर्वेषां नैक्रते अरिष्टभल्लातकनिम्बकल्पितं सूतिगृहम् । एशान्येन्द्रा दित्ययमाग्नेयनैऋत्तानामन्यतमस्थापितं गर्भागारं भोगैश्वर्यप्रदं गृहक्षतयमगान्धर्वा न्यतमे धनधान्यविवृद्धिदमसुरपुप्पदन्तभल्लाटवारुणे भोगैश्वर्ययुतम् । अधन्यमति सङ्क्षिप्तमतिविस्तीर्णमर्थदम् । द्विहस्तादि द्वगुणोच्छूयमत्युच्छूतमतिनीचगोपि घटितपाश्धं घातिशोकावहम् । वंशानुचरणं बंशानुगतद्वारमुपर्यनुगतद्वारं द्वाराम्रा वेिजलमार्गमसमानं निन्दितानुक्तदुमकल्पतञ्च नाचरेत् । सूत्रानुगतं प्रतिवंशभोजं स्थूणमुपकल्य ब्राह नवपदं परिहृत्य 1 सूत्रानुगतभितिकं चतुश्शालं त्रिशालं द्विशालं वा एतल्लक्षणसम्पन्न गर्भयुतं प्रकल्प्योक्तदेशे देवागारमुपर्यनुगतमुन्नतं रम्यं मनोरमं शुद्धं कृत्वा तस्मिन् पीठानि परिकल्प्य मध्ये देविभ्यामृषिभ्यां देवेशं सर्वजगद्वीज्जं विष्णु सर्वदेवमयं सर्वार्थसाधकं भगवन्तं प्रतिष्ठाप्य तस्योत्तरपार्श्व ब्रह्माणं सावित्र्यासार्ध तदुत्तरे गुहबक्रतुण्डौ देवस्य दक्षिणे पार्धे दुर्गा सरस्वतीमुमामिन्द्रं शशिनं सूर्यञ्च संस्थाप्य त्रिकालं द्विकालमेककालं वा अर्चयेत् । एते च पूजिता यस्य सद्मन्यत्रैव सर्व कल्याणसम्पत्।

एतेष्वपि द्विजो नित्यं विष्णु भगवन्तं ब्रह्माणं रवेिं स्कन्दं सरस्वतीञ्चार्चयत् । क्षत्रियस्त्वार्या विध्नं रविं विष्णु रुद्रम् । वैश्यः कुबेरं दुर्गा प्रियं सरस्वतीञ्च । शूद्रश्ध द्विज नित्यं विष्णु भगवन्तं चन्द्रमिन्द्रं विनायकं यत्नतः पूजयेत् ।


1. B. तत्रानुगत