पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
अष्टादशोऽष्टयायः

कुर्यात् भल्लाटे प्रथमेष्टकां पुष्पदन्ते द्वारं पर्जन्यदेशे जलमार्ग महेन्द्र सूर्यार्यमदेशे पर्य अन्तरिक्षे महानसं इन्द्रेन्द्राजस्यानेन भोजनं गन्धर्वासुरदेशे वर्चःस्थानं वारुणसौम्ये कूपम् । याम्यायां यदि चेत् महेन्द्रे प्रथमेष्टको भल्लाटे द्वारं पर्जन्ये वारिमार्ग गन्धर्वसुग्रीवे शयनं नागे वर्चस्थानं भोजनमहानसकूप जलमार्गाणां पूर्ववत् । वारुपया यदि भवेत् गृहक्षते प्रथमेष्टको महेन्द्र द्वारमीशे पचनागारं सुग्रीववरुणे शयनमन्यत् पूर्ववत् । उदीच्या यदि भवेत् पुष्पदन्ते प्रथमेष्टकां गृहक्षते द्वारमन्यत् समम् । सर्वत्र प्रतिवंशं शयनं गृहस्य दक्षिणनयनालोकं विदिक्षु देवतागारं तत्प्रमुखे अग्न्यगारमगाराभिमुखं भृत्या नामतिथीनां दक्षिणतो नैकत्यामुत्करस्थानं पृष्ठतो विद्यास्थानं तत्रैव । एतद् ब्राह्मणानाम्।

नृपाणं गृहविधानम्

नृपाणी पुरस्य मध्ये पश्चिमे वा परिघाप्राकारयन्त्राट्टालकशोभितं चतु द्वारयुतं बहूपह्मरदुर्गारण्याढ्यमुदक्पश्चिमाद्भूतमन्यूनप्रक्ल्प्ताभिषेकमण्डपं 1 याम्यै कप्राग्विस्तृताङ्गणं हम्र्यप्रासादसम्बाधं प्राङ्भुखमेवातिरम्यं विधिना कल्पयेत् । प्राच्यामायुधागारमाग्नेय्या गोष्ठागार याम्यायां भोजनस्थानं नैऋत्यां धनसङ्ग्राहं प्रतीच्यामन्तःपुरं सौम्याथामाथर्वणस्थानं वायव्या रक्षिणामस्रशस्राणामैशान्या याम्यायां वारणस्थानं वारुण्यां क्रीडास्थानं वायव्यां तुरगस्थानं वापीकूपतटाका नामैशान्यामङ्गणेऽभिमुखमार्यास्थानं पाश् हेतिमुरत्यागारे (?) तद्दक्षिणेऽधिकार नियुक्तानामाग्नेय्यां महानसम् । एवं त्रिप्राकारयुतं सुदृढं परिकल्प्य तथभि मुंखमङ्गनावाटं प्राच्यां 2 तदर्थासनं सर्वतः सैनिकानाम् ।।

इति श्रीवैखानसे भगवच्छास्त्र कश्यपप्रोते ज्ञानकाण्डे गृहवास्तुविधानं नाम अष्टादशोऽध्यायः ।।


t. W. याम्ये गृहं, 2. B. धर्ममानसं सर्वत्रैतान्नयतमिति.