पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
श्रीवैखानसे भावच्छापे काश्यपीये ज्ञानकाण्डे

त्रिगुणीकृत्य वसुभिर्हत्वा लब्धेषु ध्वजादिषु शुभयोगे वा आरभेत । 1ध्वजेऽर्थवृद्धिः अजन्नपूजा धूमे हानिर्दू:खं ल्याधिभयं सिंहे राजामात्यपुरोहितादीनां पूजा श्वाने कुलानपत्यत्वं वृषे धनधान्यापत्यवृद्धि खरे दारानाचारत्वं गजेऽप्यैश्धर्य ध्वाङ्क्षे प्रेष्यप्रकृत्यादयः । तस्मात् ध्वजसिंहवृषनागान्यतममाहृत्य सप्तारत्नि मात्रं जलान्तं शिलान्तं घनान्तं वा खनित्वा मृदं व्यपोह्य सिकताभिः 2 शौच दृढाभः मृद्मभिश्चापूर्य इभपादैर्मुसलैश्च समं दृढतरमुपकल्प्य संवत्सरं तदधं त्रिमासं मासं वा तूष्णीं निधाय कालक्रमेण शालामारभेत ।

वास्तुपदकल्पनम्

पुरुषं वास्तुनः प्रागुक्तमाङ्गमुक्तानाननं ज्ञात्वा मर्माणेिं परिहृत्य कल्पयेत् । प्रागुदक्दशभिः सूत्रैर्भूमिं विभज्यैकाशीतिपदकल्पितशरीरे क्रमादीशानपर्जन्य जयन्तेन्द्रादित्यसत्यान्तरिक्षभृशाः प्रत्यङ्मुखाः, अग्निपूपवितथगृहक्षतयम गन्धर्वभृङ्गराजर्षय इत्येते 3 दक्षिणस्यामुदङ्मुखाः, निऋतिदौवारेिकसुग्रीवपुष्प दन्तवरुणासुरशोधोरणाचेति प्रतीच्यां प्राङ्मुखाः, वायुनागमुख्यभल्लाटसोमा र्गलादितिसूरेिदवा 4 दक्षिणास्याः उदीचीनस्थाश्च, एकपदभोजिनः द्वात्रिंशद्देवता भवन्ति । अर्यमा दण्डधरः पाशभत धनदः प्रागादिक्रमेण वाटपदिकाः । सवितृसावित्रौ इन्द्रेन्द्राजौ रुद्ररुद्राजौ अपप्रापवत्सावित्येते आग्नेयादिषु कोणेषु द्विपदभोजिनः । तद्वाहो चरकी देवतारेिः पूतना पापराक्षसी इत्येताश्वतम्रः कोणेषु द्विपदभोजिन्यः पिशाचाख्या भवन्ति । एतेषां मध्ये ब्राह पदमेकं परितः प्रागादीशानपर्यन्तं भृग्वङ्किारोऽत्रिपुलहपुलस्त्यक्रतुमरीचिवसिष्ठानामित्येवं वास्त्वङ्गानि परिज्ञाय तिष्ठन्ति ।

द्विजानी गृहविधानम्

अजे वृषे सूर्ये प्राक्प्रतीचीमुखीं सिंहे कुलीरे वा उदग्दक्षिणामुखी परिहृत्य मीने मिथुने च सूर्ये सर्वमुखीमादित्याभिमुखमेवारभेत । प्राकृशालं यदि


1. W. गजेऽर्थसम्पत्, 2. . यैचन्द्र (१) दृढरूपामिः , 3, 3. दक्षिणस्यामितिनास्ति, 4. ३. दक्षिणास्या इति नास्ति.