पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

समभागमुपकल्प्य एवं बहूदकमल्पायासकृतरक्षकमशोष्यमनवाह्यमप्रबाध्यं जलाशयं यत्नतः कारयेत्, जलमूलत्वात् सर्वजन्तूनां प्रवर्तनस्य । तस्मात् सर्वप्रयत्नेनाधारो परिष्टात् बहुलजलमेवं कुर्यात् ।

आरामवृक्षाः

न्यग्रोधोदुम्बराश्वत्थप्लक्षान् प्रागादिषु चैत्यवृक्षान् प्ररोहयेत् ।1तत्सपृष्टा निलप्रवेशात् समृद्धिर्भवति । अन्यथा न समृद्दिः । वारुणश्लेष्मातकनिम्ब शाल्मलीनाग्नेयादिषु कोणेषु प्ररोहयेत् । शाल्मलिकिंशुक कापसक्षीरेिकण्टकि वृक्षान् प्रामाभ्यन्तरे न प्ररोहयेत्, शून्यत्वात्तेषाम् ।

स्कन्दं चन्द्रञ्च 2 विघ्नं भगवन्तं विना देवमानुषयोभगेि न संस्थाप येत् । देवतासामान्यछाया शुभदा ।

गृहकल्पनम्, गृहदानम्

एवं विमानानि परिकल्प्य विप्राणामावसथानि विधिना मनोरमाणि शुभ्रआणि सपरिच्छदानि पृथक् पृथक् कल्पयित्वा बिम्बानि देवदेवस्य तेषु संस्थाप्य दिजेभ्यो वेदपारगेभ्यो विष्णुभक्तियुतेभ्यो दद्यात् ।

ग्रामदानम्

एवं बहुजलसम्पन्न 3 संसारारामकैदारिकं सम्पन्नभृत्यसङ्गीर्णमनुपद्रवम त्याधिजनकमदस्युपरिपन्थिजनसम्पन्न समृद्धं ग्रामं कृत्वा नृपो दद्यात् । 4 अमृ तोदकमनरण्यमपरिग्रहमकृष्टफालमेव कल्पयित्वा साधुजनगृहीतं वा विप्रेभ्यः शक्तितो दद्यादतिभक्तिपुरस्सरम् । सर्वपापविनिर्मुक्तः स विष्णुलोकं गत्वा विष्णुसायुज्यमाप्नुयात् ।


1. W. तन्मृष्टानिल, . अकृतोदकं. 2. W. इन्दिराञ्च इत्येव, 3. M. ससादाराम, 4.M. अकृतोदकं