पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
सप्तदशोऽध्याय

विष्णुपूजनप्रशंसा

भगवन्तं विष्णु विनाऽन्ये देवैर्मनुष्यैश्च न सेव्याः । ब्राह्मशमदम सत्यत्वादिसत्त्वगुणाः विष्णोरेव प्रसादात् । अतो ब्राहां तेजः तत्प्रसादाद्वर्धते । ततो प्रामाग्रहारयोः पूज्यो भगवान् हरिः । अश्वरथनागायुधयोधाना 1 जय वीर्यादयो राजसगुणा रुद्रशक्त्या प्रसिद्धयन्ति उग्ररूपत्वाद्धरस्य । अतो नगर्यादिषु हरः पूज्यः । विष्णुः सर्वत्र पूज्यः । तत्पूजाविधानाद्धर्मसिद्धिर्भवति । वर्णाश्रमधर्माश्रयाः । अतः तद्ग्रामवासिनां श्रुतधर्माश्च िवष्णुप्रसादात् िसद्धयन्ति यजमानस्य राष्ट्रस्य च । सामान्यमग्निहोत्रम् । तदाराधनं विप्रवरैः नित्यं कर्तव्यम् । तस्मात् सेवितव्यो भगवानिष्टापूर्ताभिवृद्धये । विष्ण्वाराधनान्विते देशे देवर्षिपितृगणाः सर्वे पूजिता भवन्ति । अपूजिते तस्मिन् पूजिता अप्यपूजिता एव । विष्णुपूजाविहीने देशे विप्रो न जात्यपि वसेत्, तत्र तामसस्वभावत्वात् । तस्मात् ग्रमान्तरे देवं संस्थाप्य महतीं पूजा वैखानसेन विधानेनैव कारयेत्, सौम्यत्वाद्भुक्तिफलप्रदत्वाच्च तद्विधेः ।


अर्थकादीनां वासस्थानानि

तत्पूजकानां तत्पार्श्व स्थानं तस्यैशान्ये सभास्थानमाग्नेय्यां गौष्ठागारं नैऋत्यामापणं पैशाचभागे प्राच्यां कृलालनापिताम्बष्ठादीनां याम्ये तन्तुवाय चक्रिणां वारुणे क्रयविक्रयकारिणां वणिजां सौम्ये द्विजभृत्यानां वादित्रजीविनां य आग्नेय्यां क्रोशमात्रे तक्षादीनां नैऋते गल्यूतिमात्रे 2 चण्डालवर्गाणां वायव्ये मृगव्याधशाकुनिकादीनाम् । पैशाचाद्बाह्यतप्राकारपरिखा । परेिखायाः परितो धनुश्शतं तदर्धमर्ध कूपारामतटाक 3 वाप्यादयस्तत्र भवन्ति । एशान्ये नदीतीरे वा श्मशानं ग्रामायामसमम् । दूरे वारुण्यां तटाकं त्रिदण्डसह तदर्धप्रमाणं वा सेतुबन्धं दृढतरमत्युन्नतमनवच्छेद्य कारयत् । तत्र 4 निझरोपकुल्यामहाकुल्यादि जलयन्त्राणि सम्यक् सङ्कल्पयेत् । तत्पार्श्वतः 5 सर्वसमसलिलक्षेत्रं केदारं


1. A. जयवीर्यानन्दादयः, 2. A. चण्डालपक्कणम्, 3. ७. मठादयः इत्यधिकं, 4. B. तत्र बद्धारोहणमार्ग कुर्यात्, इत्यधिक, 6. A. सर्वसमय