पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

एव प्रतिष्ठिता भूमिः धनधान्यसमृद्धिदा ।

सर्वसम्पत्करा पणया सफला च भविष्यति ।

विगर्भा च सशल्या च विनाशाय भविष्यति ।।

विशुद्धेन द्विजेनानुतापयुतेनैश्वर्यवृद्धेन स्थापितं गर्भमैहिकामुष्मिकशुभद मन्येन स्थापितं जारगर्भमिवोभयोः विनाशाय भवति । एवं ज्ञात्वा गर्भ प्रतिष्ठाप्य प्रवेशयेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे गर्भन्यासविधानं नाम षोडशोऽध्यायः ।।

।। अथ सप्तदशोऽध्यायः ।।

ग्रामविन्यासः, हरिदृष्टि, हरपृष्ठम्

प्रागुदक् सप्तदशभिः सूत्रैः पदान्युपकल्प्य षट्पञ्चाशद्विशतभागेषु द्रौहिणं षोडशकं वेदाधिकाशीतिपदं दैविकं मानुषं षण्णवतिकं पैशाचं षष्टिरित्येवं ज्ञात्वा दैविकमानुषयोः विप्राणां पैशाचे कर्मजीविनां ब्राह्मवायत्र्यैशान्या नलनीलेषु देवसभागोष्ठापणस्थानानि प्रकल्प्य ग्राममध्ये भगवन्तं विष्णु जिष्णु जगत्पर्ति सर्वदेवमयं देवं परमात्मानं पऽवभर्तिविधानेनार्चयेत । पश्चिमे वा अन्यत्र वा देवीभ्यामृविभ्यां बीशशैषिकाभ्यां सहितं बेरं शैलजमुत्तमं, वर्णयुतं ग्रामाभिमुखं संस्थाप्यार्चयेत् । हरिदृष्टिः शुभदेति । एशान्या बाहो तद्रामपराङ्मुखं देवं हरं स्थापयेत्, हरपृष्ठं शुभदमिति ।

सूर्यादिस्थानम्

इन्द्रशानयोरन्तरे सूर्यमिन्द्राग्न्योर्मध्ये विघ्नं यमाग्न्योर्मध्ये दुर्ग नैकते शास्तारं वरुणवायवोरन्तरे स्कन्दं ग्रामाद्बहिरुदगीशानान्तरे ज्येष्ठामैशान्यां भद्रकालीं संस्थाप्याचयेत् । एामर्चनया च ग्रामशान्तिर्भवति ।