पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
पोडशोऽध्याय

तदुपरि रत्नानि क्षिप्त्वा पिधाय “विष्णुस्त्वां रक्षतु ” इत्यभिमृश्य अहतवाससा आवेष्ट्य पुण्याहं स्वस्तिमृद्धिञ्च वाचयित्वा अलकृत्य निधाय प्रदोषे भूतयक्ष पिशाचनागब्रह्मराक्षसयोगिनीढाकिनीप्रभृतीनां चतुष्पधचैत्यवृक्षश्मशानारामेषु गुहमातृशास्रादीनां स्थाने चरुलाजापूपसतुसमन्वितं माषामुद्रहरिद्रामिश्रितं पुष्पाद्भिः तत्स्थाने बलिं क्षिप्त्वा रात्रावेब ध्रुवे लग्ने ब्रह्मस्थाने द्वारे महेन्द्रे गृहक्षते भल्लाटे पुष्पदन्ते वा विष्णुशिवस्कन्दानामालये वा ग्राम वृद्धध स्थानमाहृत्य ललाटबाहुनाभिसमं तदर्धविस्तारं खनित्वा स्थलगर्भ पीठगर्भ त्यपोह्य पिशुनास्तिकजडामित्रशठहैतुकादीन् विहाय यथा ते नेव जानीयुः तथा कर्तव्यमिति ज्ञात्वा पञ्चागत्यैः प्रोक्ष्य मुहूर्ते समनुप्राप्ते ब्राह वैष्णवं हत्वा देवदेवं जगन्नाथं विष्णु ध्यात्वा शुक्लमाल्याम्बरधरः लेपेनालङ्कतः शुद्धाशयः तत्पात्रं “मेदिनी देवी ' ति हस्ताभ्यामभिमन्त्र्य " नमो वराहाये ” त्युक्तवा आत्मानं वराहरूपं वसुन्धराद्धारं ध्यात्वा “इदं विष्णु ” रिति तत्र गर्भ निधाय " दिवीदं गर्भमाधत्स्वे " ति देवीं वसुन्धरो स्मृत्वा " मेदिनी देवी " त्यादिभिर्मन्त्रैः पञ्चभिः सूतेन चाभिमन्य “ आ त्वाहार्ष ” मिति स्थापयेत् । सुवर्णमेदिनीरत्नपशुधान्यादीन् दक्षिणां दत्वा अन्नाद्यादानञ्च स्वशक्तितः कृत्वा धेतपद्मबिसतन्तुकृतवर्तिकां द्रयङ्गुलपरिणाहां षोडशाङ्गुलो ज्वलितप्रदीपिकां षोडशप्रस्थसम्पूर्णधृतपात्रप्रतिष्ठितां सम्यग्विधाय गर्भस्य दक्षिणपार्धे श्रीसूत्तेन निधायाभ्यच्र्य सुदृढं सुस्थितं मृदभिः सम्यक् प्रकल्प्याऽरभेत।

कामनाभेदेन न्यासकारं

नगरादीनां देवागारे चैत्यवृक्षे द्वारवामे वा 'बालानामभिवृद्धयर्थ वाहनायुधस्थाने वर्षवरिवृद्धयर्थ विद्युत्पर्जन्यरूपादीन् सुवर्णेन कृत्वा पञ्चगव्यैः मृण्मये वा भाण्डे िनधाय तटाके सोमौपदिधान्यसमायुक्तं पञ्चगल्यं पञ्चरत्नं वा कैदारिके स्थापयेत् । रत्नजीजघातसमायुक्तं गृहेषु स्थापयेत ।


1. A. नागराजादीनं. 2. म. बलिस्थानामभिवृद्धययै .