पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

नगर्यादीनां कृम्भकवेदिकसिंहारख्य (सेनानिवेशन) दण्डकादि । एवं ज्ञात्वा आरभेत।

नाभिमहद्राजान्तरारख्या वीथयश्चतम्रो भवन्ति । तत्र ब्राह्मदैवसमावृते नाभिहावीश्री द्वारतिर्यग्युत राजान्तरवीथी क्रमेण भवन्ति ।

प्राङ्मुखास्तिस्रः पञ्च सप्त वा वीथीः प्रकल्प्य कल्पयेदेतच्ष्ट्रीवत्सम् । एतदेव वीथिप्रोतसनाभिकं नाभियुक्तम् । उभयोः पार्श्वयोः राजवीथिद्वययुतं सनाभिकमनाभिकं वैतत्पार्श्वयुक्तमिति । ईशाना नलनीलानिलगाः प्राग्याम्यावरोदङ्मुखद्वारनाभिजाः ताभ्योऽन्तरा युग्मञ्चैतन्नन्द्या वर्तमिति । द्वारवीथी यदि प्रोत्य क्षुद्रमध्यमा महाबीधीं स्पृशन्त्येतद्भद्रकमिति । तिर्यक् तिर्यक् समीकृता रथ्याश्चतुर्था प्रोताः स्वस्तिकमिति । नाभिमङ्गल वीथिभ्यां वेष्टितं चतुद्वरयुतमेतत्कर्णिकापद्ममिति । स्वस्तिकवत् कूलुप्तं कोणमध्याश्रितनभ्या द्वारावीथिश्रयतमेतत्कणिकापदममिति । भद्रकवत्प्रोतरथ्यान्तं पद्मावर्तमिति । समषङ्गाजवीथिका प्रागुतरमुखा चतुर्दारयुता चेत्येतद्रथपदामेति1 । पदनाभिकं तद्युक्तानुगाल्पान्तवीथिकं प्रकीर्णकमितेि । तत्पदं प्रतियुक्तव्यत्यस्त क्षुद्रवीचिकमक्षुद्रवीथिकमुत्कीर्णकमिति ।

वृतैकवीथिकं कुम्भकमिति । वायल्याग्नेयनिर्गमं बेदिकम् । चतुरश्र समं कृत्वा नाभ्यष्टदिग्द्वारमुखमन्यत्पद्मकसङ्काशं 2 सिंहाख्यमिति । यथेष्टायतैक रथ्याद्वारद्धययुतं दण्डकमितेि । एतेषु सर्वेषु नाभिप्रोतं दण्डच्छेदं सूत्रछेदं न कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोक्त ज्ञानकाण्डे प्रामाग्रहारादिविन्यासविधिनम पञ्चदशोऽध्यायः ।।


1. म. रथपद्मं 2. संकाशमित्यतः किंचितृटितमिव भाति.