पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
पञ्चदशोऽध्यायः

शङ्कुलक्षणम्, तत्संस्कारः

खदिरचन्दनकदम्बसालनवकुलानामन्यतमं सारबन्तमसुषिरं समकृतं नाहद्विगुणं षोडशाङ्गुलमानाथतं शकुमाहत्य शुलपक्षे दिने शुद्धे कर्तुरनुकूले मुहूर्ते पञ्चगव्यैः प्राजापत्येन प्रक्षाल्य प्रेक्षणै. प्रेक्ष्य पुष्पगन्धधूपदीपाक्षतैरभ्यच्र्य वस्त्रेण परिवेष्ट्य आचार्यः स्नात्वा अलङ्गत्य शिल्पिभि र्दण्डमानेन मानिता सुकृतं सुसम्मितं स्निग्धां वेदिं कृत्वा न्यग्रोधमण्डलं शाकुप्रमाणं द्विगुणमर्धञ्चोल्लिख्य तन्मध्ये बिन्दून् उपकल्प्य तद्बिन्ोरन्तरे शशु प्रातरेव प्राङ्मुखः प्रयतो भूत्वा ब्रह्माणं मनसा ध्यात्वा 1 सूर्य दिग्देवताश्च प्रणम्य 2तायैः ब्रह्मघोपैराघोप्य शई संस्थाप्य 3 छायाग्रपतनं दृष्ट्वा सूच्यमेणा धाय यवमात्रं रेखा सूचयित्वा एवं पूर्वाद्मपराङ्योरपि क्रमं बुद्भवा सूत्रं प्रसारयेत् ।

इति श्रीवैखानासे भगवच्छासे कश्यपप्रोते ज्ञानकाण्डे ग्रामादिविधानं नाम चतुर्दशोध्यायः ।।

॥अथ पञ्चदशोऽध्यायः॥

ग्रामादिषु पदकल्पनम्

चतुर्नव पोडश पञ्चविंशत् षट्त्रंशदेकोनपच्चाशञ्चतुष्पष्टधकाशीति शत सङ्खयान्यतमसङ्करूक्या पदमाहृत्य पदमध्ये गृहाणां सूत्रपीडां परिहृत्य वीथ्यन्तरे गृहश्रेणिकामारभेत ।

ग्रामाग्रहारयोः द्वादश विन्यासयोनयः

श्रीवत्सं नाभियुतं पार्धयुतं नन्द्यावर्त भद्रकं स्वस्तिकं पद्मकं कणिका पदमं पदमावतं रथपदं प्रकीर्णकमत्कीर्णक्रमिति ग्रामाग्रहारयोर्विन्यासयोनयो द्वादश भवन्ति ।


1. A. सूर्याद, 2. म. तत्रादैः ब्रह्मघोषायै , 3. छप्रयामायतं.