पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
त्रयोदशोऽध्याय

स्थिर भामिनी संस्थाप्य “अङ्ग स्पृश ” स्वेतेि तामुक्तवा स्पृष्टाङ्गेनापि लक्षयेत् । अक्ष्युरोजहृदयास्यस्पर्शनेमहदैश्वर्य कपोलकर्णश्रवणगुह्यबाहुललाटपार्श्वनासाभू स्पर्शने वीर्यविवर्धनं पृष्ठोरुकक्षनखकेशस्पर्शने दुःखविघ्नकरम् । तयोक्तपदाक्षरे प्रथमद्वितीयतृतीयचतुर्थपञ्चमवर्गाद्यन्यतमाद्युते महदैश्वर्य षष्ठसप्तमाष्टमेषु 1कचटवपूतेषु मरणकलहविघ्नानीत्यन्यदनिल दहनाक्षिश्रवणयुगलाना (? ) पञ्चवर्गाणां पञ्च क्रमेणाजादिषु युज्यन्ते | शेषान् पृष्ठे स्थाप्य राशिवशात् ग्रहवशाञ्चापि लक्षयेत् । । एवमालक्ष्य शुभबहुलेष्यारभत । ततो निर्गमने पूर्वोक्तशकुनान्युक्तप्रतिमाणि शुभानीति ज्ञात्वा स्वगृहं गत्वा शुभक्षं कर्तुरनुकूलक्षे कर्षणं कत्वा उप्तबीजानेि वापयित्वा प्रस्दसस्यानि गोगणेभ्यो नियेद्य ग्रामनगरफ्तनादीन् विन्यासविधिना अभिनिवेशयेदिति विज्ञायते ।

इति श्रीवैखाससे भावच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे भूपरीक्षाविधिनम त्रयोदशोऽध्यायः ।।

॥अय चतुर्दशोऽध्यायः॥

ग्रामादिविधानम्, नवधा भेदः।

अथ प्रामादिविधानं टयाख्यास्यामः । ग्रामाप्रहार नगर फत्तन खर्यट कुटिक सेनामुख राजधानी शिबिरा इति भेदा भवन्ति। विप्राणां सभृत्यानां निवासो ग्राम इति । स एव विप्रमुख्यानामेवाग्रहार इतेि । अनेफजातेि सम्बाधमनेकशिल्पजनकुलविफल्पकैराकीर्ण सर्वदेवतासंयुक्तं नगरमिति । द्वीपान्तरागतद्रव्यक्रयविक्रयाधिष्ठितं फत्तनमिति । उभयसम्मिश्र खर्वटमिति । 2सपरिवारकैकग्रामणिक्रे कुटिकमिति । सर्वजातिसमाकीर्ण नृपवेश्मसमायुक्तं बहु


1. स. कपटवगाँष्ठयान्तःस्थोक्तौ मरणकलहविधानीत्य चेत () 2. B. परिचारकै म. सपरिवारकैरनिकामणिकं