पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

राक्षसदेशः

कपित्थदण्डकाण्डतिग्माग्निदाहरक्तपुष्पोद्भवाद्रपूणप्रदविषाचै. चोरचण्डाला शुभमृगपक्षिभिः चिञ्चुलिरोगैराक्रान्तं मरीचिगुलगन्धाढ्यमतिक्षमतिरक्त प्रजानां क्षयकारणं सुरामांसादिवृद्धिदं यत्तद्राक्षसमितेि ।

पैशाचदेशः

श्रेष्मातक विभीतक शाल्मली सुरुण्ड वञ्जुल पापकर्ण कवचनापचनी कर्कारेिकाबास नील सोमाली प्रभृतिभिः श्ध खरोष्ट्र सूकर सृगाल चण्डाल पुलिन्द शाकुनिकैर्जुष्टपूति दुन्द्यि मञ्जिष्ठागन्धितमूषररसान्वितं रूक्षं मृङ्गात्रनिभमुद्रारकर सरोगं क्षोभकरं तमित्रं तामसदं सर्वक्षयकरं यत्तत्पैशाचमितेि ।

एवंसंज्ञकाः ते ते देशा । तस्मात् सुरर्विमनुष्याणामाद्यषट्के वासं समाचरेत् । तेष्वाद्यौ ब्राह्मणानां ततो द्वौ क्षत्रियाणा विट्शूद्रयोः पुनरेकैक इति जानीयात् । तत्र च तद्वर्णवृद्धिदं भूमेिं ज्ञात्वैव वसेत् ।

लक्षणान्तराणि

सर्वाशागा आयता श्रेष्ठा । 1 प्रागुत्तरानता मधमा । अन्याऽनता जघन्या अग्राह्या । ज्यां खनित्वा तन्मृदं सङ्गृह्य पूरिता अधिका चेकुत्तमा पूरिता समा चेन्मध्यमा न्यूनपांसुः कनीयसी । मधुराऽम्लकषायलवणरसा प्रागुत्तरा परयाम्यानता मेघगजशार्दूलदुन्दुभिनिःस्वना शुक्लरक्तहरितासितवर्णा 2 क्रमशो भवतीति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे भौतिकादेिश लक्षण नाम द्वादशोऽध्यायः ।।


1, - स्वपूरितपंस्विधिका पदा ज्यायसी समा समपासुः इति भिन्नानुपूर्वी , 2.B- वर्णानां