पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
दशमोऽध्यायः

मरीचिपिप्पलीगुलपूतिगन्धं क्षेत्रमाभिचारिकमित्युपदिशन्ति । विमानमलक्षणं मृत्पक्वकल्पितं ' घर्मपांसुकपालतुषकेशास्थियुतं बेरमिष्टकाकल्पितं पक्व वा कण्टकवृशैर्नपुसकवृदैव कृतं कालायसपाषाणचूर्णहिङ्गुलशुनतैलशाणैर्चान्यै फलपक्वद्रव्यैः संस्कृतमतिरक्तमतिकृष्णमृद्युतमतिप्रमाणमतिदीर्घमतिस्थूल मत्तिकृशम् । कौतुकं कृष्णायसारकूटकृतलोह 2 सीसाक्यैः कृतमाद्रऽऽश्रेषा मूलकृष्णाष्टमीचतुर्दश्यादिदिनेषु शर्वर्या स्थापितं पुष्पं पूतिगन्धि मदगन्धि शिरीषमहाभद्रकाफैकदम्बरक्तकुमुद पुष्पनिर्गुण्डीपत्रैकपर्णयुतं गन्ध रक्तचन्दनमुग्रगन्धं दीपो नारिकेलैरण्डपुन्नागमधूकनेम्बकरञ्जादिस्नेहयुतो मध्यमाङ्गुलोछूयः अध्यै जलतण्डुलयुतं बस्र नीलमाभरणं कालायसीसादिकृतं अग्निः कपालादिजं समित्कपित्थनिम्बभल्लात विभीतकादययाज्ञिकानामष्टाङ्गुलैः षोडशाङ्गुलैर्वा आयता अङ्गुष्ठाग्रपरिणाहा । वामहस्तयुत पृष्ठाग्रनिक्षिप्त वार्तायुक्तं द्रव्यं कटुतैलनिम्बपत्रयुतं तदाभिचारिफम् ।

आभिचारिकबिम्बविशेषः

नीलश्यामादिकृत्रिमवणैरालेख्य सुधया कृतं बिम्बं दक्षिणाभिमुख शयानं देवीवियुक्तमाभिचारेिकम् । किं बहुना यद्यदत्र विधिविहीन सशल्यकृत तत्सर्वमाभिचारेिकमिति कश्यपः ।।

इति श्रीवैस्वानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे पौष्टिकाभिचारेिकविधानं नाम दशमोऽध्यायः ।।

। अथ एकादशोऽध्यायः ।।

वास्तुविधानम्, ग्राह्यभूमिः, नवविधदेशः परीक्षा

अथ वास्तुविधान घ्याख्यास्याम, । वास्तुसम्पत्ससम्पन्मूलम् । अविरुद्धे वास्तुन्युतेि ऐहिकामुष्मिकाणां सिद्धिर्भवति । अतः सम्यक्परीक्ष्यैव सर्वकर्माणि कारयेत् । शान्तिकं पौष्टिकं वा देशामाश्रित्य वृद्धिदेशं गृह्णीयात् ।


सन. च . मात्रे कल्पितमितेि दृश्यते, 2. V. सीसमित्रै: